विदुर उवाच 001
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति 001a
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते 001c
पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ 002a
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं ततो दद्यादन्नमवेक्ष्य धीरः 002c
यस्योदकं मधुपर्कं च गां च नमन्त्रवित्प्रतिगृह्णाति गेहे 003a
लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः 003c
चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च 004a
सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः 004c
अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च 005a
तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश्च 005c
अरोषणो यः समलोष्टकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः 006a
निन्दाप्रशंसोपरतः प्रियाप्रिये चरन्नुदासीनवदेष भिक्षुकः 006c
नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माग्निकार्येष्वचोद्यः 007a
वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः 007c
अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् 008a
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः 008c
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् 009a
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति 009c
अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः 010a
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् 010c
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः 011a
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः 011c
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् 012a
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् 012c
भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् 012e
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 013a
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 013c
नित्यं सन्तः कुले जाताः पावकोपमतेजसः 014a
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते 014c
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये 015a
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते 015c
करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् 016a
धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते 016c
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः 017a
अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते 017c
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् 018a
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् 018c
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च 018e
कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः 019a
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् 019c
अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति 020a
स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि 020c
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् 021a
तेषामेवाननुष्ठानं पश्चात्तापकरं महत् 021c
स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः 022a
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप 022c
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः 023a
आत्मप्रत्ययकोशस्य वसुधेयं वसुन्धरा 023c
नाममात्रेण तुष्येत छत्रेण च महीपतिः 024a
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् 024c
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा 025a
अमात्यं नृपतिर्वेद राजा राजानमेव च 025c
न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः 026a
अहताद्धि भयं तस्माज्जायते नचिरादिव 026c
दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च 027a
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च 027c
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् 028a
कीर्तिं च लभते लोके न चानर्थेन युज्यते 028c
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः 029a
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः 029c
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये 030a
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः 030c
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत 031a
धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते 031c
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् 032a
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा 032c
अविसंवादनं दानं समयस्याव्यतिक्रमः 033a
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् 033c
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः 034a
अपि सङ्क्षीणकोशोऽपि लभते परिवारणम् 034c
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा 035a
मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः 035c
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः 036a
तादृङ्नराधमो लोके वर्जनीयो नराधिप 036c
न स रात्रौ सुखं शेते ससर्प इव वेश्मनि 037a
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् 037c
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत 038a
सदा प्रसादनं तेषां देवतानामिवाचरेत् 038c
येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च 039a
ये चानार्यसमासक्ताः सर्वे ते संशयं गताः 039c
यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च 040a
मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव 040c
प्रयोजनेषु ये सक्ता न विशेषेषु भारत 041a
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः 041c
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः 042a
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः 042c
हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः 043a
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् 043c
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव 044a
ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव 044c