विदुर उवाच 001
सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् 001a
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः 001c
तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् 002a
अथो मरीचिनः पादाननाम्यान्नमतस्तथा 002c
यश्चाशिष्यं शासति यश्च कुप्यते यश्चातिवेलं भजते द्विषन्तम् 003a
स्त्रियश्च योऽरक्षति भद्रमस्तु ते यश्चायाच्यं याचति यश्च कत्थते 003c
यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी 004a
अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र 004c
वध्वा हासं श्वशुरो यश्च मन्यते वध्वा वसन्नुत यो मानकामः 005a
परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् 005c
यश्चैव लब्ध्वा न स्मरामीत्युवाच दत्त्वा च यः कत्थति याच्यमानः 006a
यश्चासतः सान्त्वमुपासतीह एतेऽनुयान्त्यनिलं पाशहस्ताः 006c
यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः 007a
मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः 007c
धृतराष्ट्र उवाच 008
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा 008a
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना 008c
विदुर उवाच 009
अतिवादोऽतिमानश्च तथात्यागो नराधिप 009a
क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् 009c
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् 010a
एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते 010c
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः 011a
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत 011c
शरणागतहा चैव सर्वे ब्रह्महणैः समाः 012a
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः 012c
गृही वदान्योऽनपविद्धवाक्यः शेषान्नभोक्ताप्यविहिंसकश्च 013a
नानर्थकृत्त्यक्तकलिः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् 013c
सुलभाः पुरुषा राजन्सततं प्रियवादिनः 014a
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 014c
यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये 015a
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् 015c
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 016a
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 016c
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि 017a
आत्मानं सततं रक्षेद्दारैरपि धनैरपि 017c
उक्तं मया द्यूतकालेऽपि राजन्नैवं युक्तं वचनं प्रातिपीय 018a
तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य 018c
काकैरिमांश्चित्रबर्हान्मयूरान्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः 019a
हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र 019c
यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य 020a
तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति 020c
न भृत्यानां वृत्तिसंरोधनेन बाह्यं जनं सञ्जिघृक्षेदपूर्वम् 021a
त्यजन्ति ह्येनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः 021c
कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्यायव्ययावनुरूपां च वृत्तिम् 022a
सङ्गृह्णीयादनुरूपान्सहायान्सहायसाध्यानि हि दुष्कराणि 022c
अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः 023a
वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः 023c
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः 024a
प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः 024c
अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः 025a
अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् 025c
न विश्वासाज्जातु परस्य गेहं गच्छेन्नरश्चेतयानो विकाले 026a
न चत्वरे निशि तिष्ठेन्निगूढो न राजन्यां योषितं प्रार्थयीत 026c
न निह्नवं सत्रगतस्य गच्छेत्संसृष्टमन्त्रस्य कुसङ्गतस्य 027a
न च ब्रूयान्नाश्वसामि त्वयीति सकारणं व्यपदेशं तु कुर्यात् 027c
घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा 028a
सेनाजीवी चोद्धृतभक्त एव व्यवहारे वै वर्जनीयाः स्युरेते 028c
गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः 029a
स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः 029c
गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च सुखं बलं च 030a
अनाविलं चास्य भवेदपत्यं न चैनमाद्यून इति क्षिपन्ति 030c
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् 031a
अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयीत 031c
कदर्यमाक्रोशकमश्रुतं च वराकसम्भूतममान्यमानिनम् 032a
निष्ठूरिणं कृतवैरं कृतघ्नमेतान्भृशार्तोऽपि न जातु याचेत् 032c
सङ्क्लिष्टकर्माणमतिप्रवादं नित्यानृतं चादृढभक्तिकं च 033a
विकृष्टरागं बहुमानिनं चाप्येतान्न सेवेत नराधमान्षट् 033c
सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः 034a
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः 034c
उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय काञ्चित् 035a
स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् 035c
हितं यत्सर्वभूतानामात्मनश्च सुखावहम् 036a
तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये 036c
बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च 037a
व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः 037c
पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेरन्नपि देवाः सशक्राः 038a
पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतां च हर्षः 038c
भीष्मस्य कोपस्तव चेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य 039a
उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे 039c
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः 040a
पृथिवीमनुशासेयुरखिलां सागराम्बराम् 040c
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः 041a
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् 041c
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् 042a
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् 042c
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् 043a
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः 043c
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् 044a
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् 044c
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः 045a
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या 045c
यो धर्ममर्थं कामं च यथाकालं निषेवते 046a
धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति 046c
सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः 047a
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति 047c
बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे 048a
यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते 048c
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते 049a
धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः 049c
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् 050a
अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् 050c
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत 051a
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते 051c
महते योऽपकाराय नरस्य प्रभवेन्नरः 052a
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् 052c
स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु 053a
भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति 053c
प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः सन्ति न चौषधानि 054a
न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः 054c
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत 055a
नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः 055c
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु 056a
न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः 056c
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते 057a
तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा 057c
एवमेव कुले जाताः पावकोपमतेजसः 058a
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते 058c
लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः 059a
न लता वर्धते जातु महाद्रुममनाश्रिता 059c
वनं राजंस्त्वं सपुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि 060a
सिंहैर्विहीनं हि वनं विनश्येत्सिंहा विनश्येयुरृते वनेन 060c