विदुर उवाच 001
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 001a
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् 001c
चरन्तं हंसरूपेण महर्षिं संशितव्रतम् 002a
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा 002c
साध्या देवा वयमस्मो महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् 003a
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् 003c
हंस उवाच 004
एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः 004a
ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत 004c
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः 005a
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 005c
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी 006a
न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत 006c
मर्माण्यस्थीनि हृदयं तथासून्घोरा वाचो निर्दहन्तीह पुंसाम् 007a
तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत 007c
अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् 008a
विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् 008c
परश्चेदेनमधिविध्येत बाणैर्भृशं सुतीक्ष्णैरनलार्कदीप्तैः 009a
विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति 009c
यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव 010a
वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति 010c
वादं तु यो न प्रवदेन्न वादयेद्यो नाहतः प्रतिहन्यान्न घातयेत् 011a
यो हन्तुकामस्य न पापमिच्छेत्तस्मै देवाः स्पृहयन्त्यागताय 011c
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् 012a
प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् 012c
यादृशैः संविवदते यादृशांश्चोपसेवते 013a
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः 013c
यतो यतो निवर्तते ततस्ततो विमुच्यते 014a
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि 014c
न जीयते नोत जिगीषतेऽन्यान्न वैरकृच्चाप्रतिघातकश्च 015a
निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् 015c
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् 016a
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः 016c
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च 017a
राद्धापराद्धे जानाति यः स मध्यमपूरुषः 017c
दुःशासनस्तूपहन्ता न शास्ता नावर्तते मन्युवशात्कृतघ्नः 018a
न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः 018c
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः 019a
निराकरोति मित्राणि यो वै सोऽधमपूरुषः 019c
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् 020a
अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः 020c
प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण 021a
न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् 021c
धृतराष्ट्र उवाच 022
महाकुलानां स्पृहयन्ति देवा धर्मार्थवृद्धाश्च बहुश्रुताश्च 022a
पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि 022c
विदुर उवाच 023
तपो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्नदानम् 023a
येष्वेवैते सप्त गुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि 023c
येषां न वृत्तं व्यथते न योनिर्वृत्तप्रसादेन चरन्ति धर्मम् 024a
ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि 024c
अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च 025a
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च 025c
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च 026a
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च 026c
ब्राह्मणानां परिभवात्परिवादाच्च भारत 027a
कुलान्यकुलतां यान्ति न्यासापहरणेन च 027c
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः 028a
कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः 028c
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि 029a
कुलसङ्ख्यां तु गच्छन्ति कर्षन्ति च महद्यशः 029c
मा नः कुले वैरकृत्कश्चिदस्तु राजामात्यो मा परस्वापहारी 030a
मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः 030c
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् 031a
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् 031c
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता 032a
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन 032c
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् 033a
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् 033c
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः 034a
एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः 034c
न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् 035a
यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि 035c
यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते 036a
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् 036c
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः 037a
पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः 037c
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् 038a
अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा 038c
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः 039a
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा 039c
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये 040a
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते 040c
अर्थयेदेव मित्राणि सति वासति वा धने 041a
नानर्थयन्विजानाति मित्राणां सारफल्गुताम् 041c
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् 042a
सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति 042c
अनवाप्यं च शोकेन शरीरं चोपतप्यते 043a
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः 043c
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः 044a
पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः 044c
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च 045a
पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत् 045c
चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्तते यत्र यत्र 046a
ततस्ततः स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः 046c
धृतराष्ट्र उवाच 047
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया 047a
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 047c
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः 048a
यत्तत्पदमनुद्विग्नं तन्मे वद महामते 048c
विदुर उवाच 049
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् 049a
नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ 049c
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् 050a
गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति 050c
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः 051a
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः 051c
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः 052a
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते 052c
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते 053a
न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः 053c
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः 054a
न वै भिन्ना गौरवं मानयन्ति न वै भिन्नाः प्रशमं रोचयन्ति 054c
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् 055a
भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किञ्चिदन्यद्विनाशात् 055c
सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः 056a
सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ज्ञातितो भयम् 056c
तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः 057a
बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् 057c
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च 058a
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ 058c
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च 059a
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते 059c
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः 060a
प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् 060c
अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः 061a
ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् 061c
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् 062a
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् 062c
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च 063a
ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत 063c
अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः 064a
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः 064c
न मनुष्ये गुणः कश्चिदन्यो धनवतामपि 065a
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः 065c
अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् 066a
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य 066c
रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् 067a
दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम् 067c
पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् 068a
दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति 068c
न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः 069a
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् 069c
धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु 070a
एकारिमित्राः कुरवो ह्येकमन्त्रा जीवन्तु राजन्सुखिनः समृद्धाः 070c
मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ 071a
पार्थान्बालान्वनवासप्रतप्तान्गोपायस्व स्वं यशस्तात रक्षन् 071c
सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रैर्मा तेऽन्तरं रिपवः प्रार्थयन्तु 072a
सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र 072c