धृतराष्ट्र उवाच 001
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः 001a
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे 001c
विदुर उवाच 002
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् 002a
उभे एते समे स्यातामार्जवं वा विशिष्यते 002c
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो 003a
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि 003c
यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते 004a
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते 004c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 005a
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना 005c
केशिन्युवाच 006
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन 006a
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति 006c
विरोचन उवाच 007
प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः 007a
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः 007c
केशिन्युवाच 008
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन 008a
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ 008c
विरोचन उवाच 009
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे 009a
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ 009c
सुधन्वोवाच 010
अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् 010a
एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह 010c
विरोचन उवाच 011
अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् 011a
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् 011c
सुधन्वोवाच 012
पितापि ते समासीनमुपासीतैव मामधः 012a
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे 012c
विरोचन उवाच 013
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः 013a
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः 013c
सुधन्वोवाच 014
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन 014a
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः 014c
विरोचन उवाच 015
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते 015a
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् 015c
सुधन्वोवाच 016
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते 016a
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् 016c
प्रह्राद उवाच 017
इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह 017a
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ 017c
किं वै सहैव चरतो न पुरा चरतः सह 018a
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना 018c
विरोचन उवाच 019
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे 019a
प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः 019c
प्रह्राद उवाच 020
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने 020a
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता 020c
सुधन्वोवाच 021
उदकं मधुपर्कं च पथ एवार्पितं मम 021a
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः 021c
प्रह्राद उवाच 022
पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः 022a
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् 022c
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् 023a
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् 023c
सुधन्वोवाच 024
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः 024a
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् 024c
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः 025a
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् 025c
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते 026a
शतमश्वानृते हन्ति सहस्रं पुरुषानृते 026c
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् 027a
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः 027c
प्रह्राद उवाच 028
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन 028a
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः 028c
विरोचन सुधन्वायं प्राणानामीश्वरस्तव 029a
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् 029c
सुधन्वोवाच 030
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः 030a
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् 030c
एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः 031a
पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम 031c
विदुर उवाच 032
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि 032a
मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् 032c
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् 033a
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् 033c
यथा यथा हि पुरुषः कल्याणे कुरुते मनः 034a
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः 034c
न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् 035a
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले 035c
मत्तापानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् 036a
राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः 036c
सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च 037a
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्येष्वधिकुर्वीत सप्त 037c
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः 038a
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि 038c
अगारदाही गरदः कुण्डाशी सोमविक्रयी 039a
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः 039c
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः 040a
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः 040c
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि 041a
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः 041c
तृणोल्कया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः 042a
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च 042c
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया 043a
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः 043c
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते 044a
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति 044c
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च 045a
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च 045c
एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य 046a
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति 046c
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि 047a
चत्वार्येषामन्ववेतानि सद्भिश्चत्वार्येषामन्ववयन्ति सन्तः 047c
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः 048a
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः 048c
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् 049a
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् 049c
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् 050a
शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः 050c
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् 051a
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् 051c
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः 052a
नष्टप्रज्ञः पापमेव नित्यमारभते नरः 052c
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः 053a
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः 053c
असूयको दन्दशूको निष्ठुरो वैरकृन्नरः 054a
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् 054c
अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा 055a
अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते 055c
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः 056a
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् 056c
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् 057a
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् 057c
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् 058a
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् 058c
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् 059a
शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् 059c
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते 060a
असंवृतं तद्भवति ततोऽन्यदवदीर्यते 060c
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् 061a
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः 061c
ऋषीणां च नदीनां च कुलानां च महात्मनाम् 062a
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च 062c
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी 063a
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् 063c
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः 064a
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् 064c
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत 065a
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च 065c
दुर्योधने च शकुनौ मूढे दुःशासने तथा 066a
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि 066c
सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ 067a
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् 067c