धृतराष्ट्र उवाच 001
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि 001a
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः 001c
त्वं मां यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः 002a
यन्मन्यसे पथ्यमदीनसत्त्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम् 002c
पापाशङ्की पापमेवानुपश्यन्पृच्छामि त्वां व्याकुलेनात्मनाहम् 003a
कवे तन्मे ब्रूहि सर्वं यथावन्मनीषितं सर्वमजातशत्रोः 003c
विदुर उवाच 004
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् 004a
अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् 004c
तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति 005a
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे 005c
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत 006a
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः 006c
तथैव योगविहितं न सिध्येत्कर्म यन्नृप 007a
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः 007c
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु 008a
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् 008c
अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् 009a
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा 009c
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये 010a
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते 010c
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति 011a
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति 011c
न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् 012a
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् 012c
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् 013a
रूपाभिपाती ग्रसते नानुबन्धमवेक्षते 013c
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् 014a
हितं च परिणामे यत्तदद्यं भूतिमिच्छता 014c
वनस्पतेरपक्वानि फलानि प्रचिनोति यः 015a
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति 015c
यस्तु पक्वमुपादत्ते काले परिणतं फलम् 016a
फलाद्रसं स लभते बीजाच्चैव फलं पुनः 016c
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः 017a
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया 017c
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् 018a
मालाकार इवारामे न यथाङ्गारकारकः 018c
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः 019a
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा 019c
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः 020a
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः 020c
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् 021a
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् 021c
ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव 022a
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः 022c
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् 023a
प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति 023c
यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव 024a
सागरान्तामपि महीं लब्ध्वा स परिहीयते 024c
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा 025a
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः 025c
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः 026a
वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी 026c
अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः 027a
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा 027c
य एव यत्नः क्रियते परराष्ट्रावमर्दने 028a
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने 028c
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् 029a
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते 029c
अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः 030a
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् 030c
सुव्याहृतानि सुधियां सुकृतानि ततस्ततः 031a
सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा 031c
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः 032a
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः 032c
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा 033a
अथ या सुदुहा राजन्नैव तां विनयन्त्यपि 033c
यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि 034a
यच्च स्वयं नतं दारु न तत्सन्नामयन्त्यपि 034c
एतयोपमया धीरः सन्नमेत बलीयसे 035a
इन्द्राय स प्रणमते नमते यो बलीयसे 035c
पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः 036a
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः 036c
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते 037a
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते 037c
मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः 038a
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः 038c
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः 039a
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते 039c
य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये 040a
सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः 040c
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् 041a
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् 041c
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः 042a
एते मदावलिप्तानामेत एव सतां दमाः 042c
असन्तोऽभ्यर्थिताः सद्भिः किञ्चित्कार्यं कदाचन 043a
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् 043c
गतिरात्मवतां सन्तः सन्त एव सतां गतिः 044a
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः 044c
जिता सभा वस्त्रवता समाशा गोमता जिता 045a
अध्वा जितो यानवता सर्वं शीलवता जितम् 045c
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति 046a
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः 046c
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् 047a
लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ 047c
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा 048a
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा 048c
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते 049a
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते 049c
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् 050a
उत्तमानां तु मर्त्यानामवमानात्परं भयम् 050c
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः 051a
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते 051c
इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः 052a
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव 052c
यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना 053a
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् 053c
अविजित्य य आत्मानममात्यान्विजिगीषते 054a
अमित्रान्वाजितामात्यः सोऽवशः परिहीयते 054c
आत्मानमेव प्रथमं देशरूपेण यो जयेत् 055a
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते 055c
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु 056a
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते 056c
रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः 057a
तैरप्रमत्तः कुशलः सदश्वैर्दान्तैः सुखं याति रथीव धीरः 057c
एतान्यनिगृहीतानि व्यापादयितुमप्यलम् 058a
अविधेया इवादान्ता हयाः पथि कुसारथिम् 058c
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः 059a
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् 059c
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः 060a
श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते 060c
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः 061a
इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः 061c
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः 062a
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः 062c
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ 063a
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः 063c
समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति 064a
स वै सम्भृतसम्भारः सततं सुखमेधते 064c
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् 065a
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् 065c
दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः 066a
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः 066c
असन्त्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् 067a
शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात् 067c
निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान् 068a
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् 068c
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता 069a
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् 069c
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता 070a
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत 070c
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् 071a
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते 071c
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् 072a
शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् 072c
वाक्संयमो हि नृपते सुदुष्करतमो मतः 073a
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् 073c
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता 074a
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते 074c
संरोहति शरैर्विद्धं वनं परशुना हतम् 075a
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् 075c
कर्णिनालीकनाराचा निर्हरन्ति शरीरतः 076a
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः 076c
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि 077a
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु 077c
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् 078a
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति 078c
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते 079a
अनयो नयसङ्काशो हृदयान्नापसर्पति 079c
सेयं बुद्धिः परीता ते पुत्राणां तव भारत 080a
पाण्डवानां विरोधेन न चैनामवबुध्यसे 080c
राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् 081a
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः 081c
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः 082a
तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् 082c
आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः 083a
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति 083c