वैशम्पायन उवाच 001
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः 001a
विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् 001c
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् 002a
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति 002c
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् 003a
अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय 003c
द्वाःस्थ उवाच 004
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् 004a
द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् 004c
धृतराष्ट्र उवाच 005
प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् 005a
अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने 005c
द्वाःस्थ उवाच 006
प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः 006a
न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् 006c
वैशम्पायन उवाच 007
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् 007a
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् 007c
विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात् 008a
यदि किञ्चन कर्तव्यमयमस्मि प्रशाधि माम् 008c
धृतराष्ट्र उवाच 009
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः 009a
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति 009c
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया 010a
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् 010c
जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि 011a
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि 011c
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः 012a
सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता 012c
विदुर उवाच 013
अभियुक्तं बलवता दुर्बलं हीनसाधनम् 013a
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः 013c
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप 014a
कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे 014c
धृतराष्ट्र उवाच 015
श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः 015a
अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः 015c
विदुर उवाच 016
निषेवते प्रशस्तानि निन्दितानि न सेवते 016a
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् 016c
क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता 017a
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते 017c
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे 018a
कृतमेवास्य जानन्ति स वै पण्डित उच्यते 018c
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः 019a
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते 019c
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते 020a
कामादर्थं वृणीते यः स वै पण्डित उच्यते 020c
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते 021a
न किञ्चिदवमन्यन्ते पण्डिता भरतर्षभ 021c
क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात् 022a
नासम्पृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य 022c
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् 023a
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः 023c
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः 024a
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते 024c
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते 025a
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ 025c
न हृष्यत्यात्मसम्माने नावमानेन तप्यते 026a
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते 026c
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् 027a
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते 027c
प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान् 028a
आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते 028c
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा 029a
असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः 029c
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः 030a
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः 030c
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति 031a
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते 031c
अकामान्कामयति यः कामयानान्परिद्विषन् 032a
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् 032c
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च 033a
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् 033c
संसारयति कृत्यानि सर्वत्र विचिकित्सते 034a
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ 034c
अनाहूतः प्रविशति अपृष्टो बहु भाषते 035a
विश्वसत्यप्रमत्तेषु मूढचेता नराधमः 035c
परं क्षिपति दोषेण वर्तमानः स्वयं तथा 036a
यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः 036c
आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् 037a
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते 037c
अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते 038a
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् 038c
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा 039a
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते 039c
एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् 040a
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः 040c
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः 041a
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते 041c
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता 042a
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् 042c
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु 043a
पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव 043c
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते 044a
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः 044c
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् 045a
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् 045c
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे 046a
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव 046c
एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते 047a
यदेनं क्षमया युक्तमशक्तं मन्यते जनः 047c
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा 048a
विद्यैका परमा दृष्टिरहिंसैका सुखावहा 048c
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव 049a
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 049c
द्वे कर्मणी नरः कुर्वन्नस्मिल्ँलोके विरोचते 050a
अब्रुवन्परुषं किञ्चिदसतो नार्थयंस्तथा 050c
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ 051a
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः 051c
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ 052a
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः 052c
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः 053a
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् 053c
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ 054a
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् 054c
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ 055a
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः 055c
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः 056a
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु 056c
त्रय एवाधना राजन्भार्या दासस्तथा सुतः 057a
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् 057c
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् 058a
अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च 058c
चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे 059a
वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या 059c
चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः 060a
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे 060c
देवतानां च सङ्कल्पमनुभावं च धीमताम् 061a
विनयं कृतविद्यानां विनाशं पापकर्मणाम् 061c
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः 062a
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ 062c
पञ्चैव पूजयल्ँलोके यशः प्राप्नोति केवलम् 063a
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् 063c
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि 064a
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः 064c
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् 065a
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् 065c
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता 066a
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता 066c
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे 067a
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् 067c
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् 068a
ग्रामकामं च गोपालं वनकामं च नापितम् 068c
षडेव तु गुणाः पुंसा न हातव्याः कदाचन 069a
सत्यं दानमनालस्यमनसूया क्षमा धृतिः 069c
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति 070a
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः 070c
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते 071a
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः 071c
प्रमदाः कामयानेषु यजमानेषु याजकाः 072a
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः 072c
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः 073a
प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः 073c
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् 074a
महच्च दण्डपारुष्यमर्थदूषणमेव च 074c
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः 075a
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते 075c
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति 076a
रमते निन्दया चैषां प्रशंसां नाभिनन्दति 076c
नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति 077a
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् 077c
अष्टाविमानि हर्षस्य नवनीतानि भारत 078a
वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि 078c
समागमश्च सखिभिर्महांश्चैव धनागमः 079a
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने 079c
समये च प्रियालापः स्वयूथेषु च सन्नतिः 080a
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि 080c
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् 081a
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः 081c
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् 082a
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः 082c
त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश 083a
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः 083c
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 084a
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना 084c
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च 085a
विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् 085c
जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् 086a
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा 086c
सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् 087a
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः 087c
प्राप्यापदं न व्यथते कदा चिदुद्योगमन्विच्छति चाप्रमत्तः 088a
दुःखं च काले सहते जितात्मा धुरन्धरस्तस्य जिताः सपत्नाः 088c
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् 089a
दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव 089c
न संरम्भेणारभतेऽर्थवर्गमाकारितः शंसति तथ्यमेव 090a
न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः 090c
न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति 091a
नात्याह किञ्चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् 091c
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् 092a
न मूर्च्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनोऽपि 092c
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति 093a
न दुर्गतोऽस्मीति करोति मन्युं तमार्यशीलं परमाहुरग्र्यम् 093c
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः 094a
दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्यशीलः 094c
देशाचारान्समयाञ्जातिधर्मान्बुभूषते यस्तु परावरज्ञः 095a
स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति 095c
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् 096a
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः 096c
दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधाल्ँलोकवादान् 097a
एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति 097c
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च 098a
गुणैर्विशिष्टांश्च पुरोदधाति विपश्चितस्तस्य नयाः सुनीताः 098c
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा 099a
ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः 099c
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् 100a
मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः 100c
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्धभावः 101a
अतीव सञ्ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः 101c
य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत 102a
अनन्ततेजाः सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते 102c
वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः 103a
त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय 103c
प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः 104a
न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र 104c