वैशम्पायन उवाच 001
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा 001a
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः 001c
सम्प्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह 002a
अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत् 002c
आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ उपागतं पाण्डवानां सकाशात् 003a
जागर्ति चेदभिवदेस्त्वं हि क्षत्तः प्रविशेयं विदितो भूमिपस्य 003c
द्वाःस्थ उवाच 004
सञ्जयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते 004a
प्राप्तो दूतः पाण्डवानां सकाशात्प्रशाधि राजन्किमयं करोतु 004c
धृतराष्ट्र उवाच 005
आचक्ष्व मां सुखिनं काल्यमस्मै प्रवेश्यतां स्वागतं सञ्जयाय 005a
न चाहमेतस्य भवाम्यकाल्यः स मे कस्माद्द्वारि तिष्ठेत क्षत्तः 005c
वैशम्पायन उवाच 006
ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम् 006a
सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः 006c
सञ्जय उवाच 007
सञ्जयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् 007a
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् 007c
स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च 008a
तथा सुहृद्भिः सचिवैश्च राजन्ये चापि त्वामुपजीवन्ति तैश्च 008c
धृतराष्ट्र उवाच 009
अभ्येत्य त्वां तात वदामि सञ्जय अजातशत्रुं च सुखेन पार्थम् 009a
कच्चित्स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् 009c
सञ्जय उवाच 010
सहामात्यः कुशली पाण्डुपुत्रो भूयश्चातो यच्च तेऽग्रे मनोऽभूत् 010a
निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च 010c
परं धर्मात्पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य 011a
सुखप्रिये धर्महीने न पार्थोऽनुरुध्यते भारत तस्य विद्धि 011c
परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा 012a
इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् 012c
इमं च दृष्ट्वा तव कर्मदोषं पादोदर्कं घोरमवर्णरूपम् 013a
यावन्नरः कामयतेऽतिकाल्यं तावन्नरोऽयं लभते प्रशंसाम् 013c
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमर्थाम् 014a
विरोचतेऽहार्यवृत्तेन धीरो युधिष्ठिरस्त्वयि पापं विसृज्य 014c
अङ्गात्मनः कर्म निबोध राजन्धर्मार्थयुक्तादार्यवृत्तादपेतम् 015a
उपक्रोशं चेह गतोऽसि राजन्नोहेश्च पापं प्रसजेदमुत्र 015c
स त्वमर्थं संशयितं विना तैराशंससे पुत्रवशानुगोऽद्य 016a
अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य 016c
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घवैरी क्षत्रविद्यास्वधीरः 017a
एवन्धर्मा नापदः सन्तितीर्षेद्धीनवीर्यो यश्च भवेदशिष्टः 017c
कुले जातो धर्मवान्यो यशस्वी बहुश्रुतः सुखजीवी यतात्मा 018a
धर्मार्थयोर्ग्रथितयोर्बिभर्ति नान्यत्र दिष्टस्य वशादुपैति 018c
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि सम्प्रणेता 019a
एवंयुक्तः सर्वमन्त्रैरहीनो अनानृशंस्यं कर्म कुर्यादमूढः 019c
तवापीमे मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः 020a
तेषामयं बलवान्निश्चयश्च कुरुक्षयार्थे निरयो व्यपादि 020c
अकालिकं कुरवो नाभविष्यन्पापेन चेत्पापमजातशत्रुः 021a
इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् 021c
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं ददर्श 022a
अत्यक्रामत्स तथा सम्मतः स्यान्न संशयो नास्ति मनुष्यकारः 022c
एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ 023a
बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने 023c
चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः 024a
तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् 024c
न त्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत् 025a
मातुः पितुः कर्मणाभिप्रसूतः संवर्धते विधिवद्भोजनेन 025c
प्रियाप्रिये सुखदुःखे च राजन्निन्दाप्रशंसे च भजेत एनम् 026a
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव 026c
स त्वा गर्हे भारतानां विरोधादन्तो नूनं भवितायं प्रजानाम् 027a
नो चेदिदं तव कर्मापराधात्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् 027c
त्वमेवैको जातपुत्रेषु राजन्वशं गन्ता सर्वलोके नरेन्द्र 028a
कामात्मनां श्लाघसे द्यूतकाले नान्यच्छमात्पश्य विपाकमस्य 028c
अनाप्तानां प्रग्रहात्त्वं नरेन्द्र तथाप्तानां निग्रहाच्चैव राजन् 029a
भूमिं स्फीतां दुर्बलत्वादनन्तां न शक्तस्त्वं रक्षितुं कौरवेय 029c
अनुज्ञातो रथवेगावधूतः श्रान्तो निपद्ये शयनं नृसिंह 030a
प्रातः श्रोतारः कुरवः सभायामजातशत्रोर्वचनं समेताः 030c