युधिष्ठिर उवाच 001
उत सन्तमसन्तं च बालं वृद्धं च सञ्जय 001a
उताबलं बलीयांसं धाता प्रकुरुते वशे 001c
उत बालाय पाण्डित्यं पण्डितायोत बालताम् 002a
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् 002c
अलं विज्ञापनाय स्यादाचक्षीथा यथातथम् 003a
अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत् 003c
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् 004a
अभिवाद्योपसङ्गृह्य ततः पृच्छेरनामयम् 004c
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् 005a
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः 005c
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम 006a
राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः 006c
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् 007a
तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः 007c
तथा भीष्मं शान्तनवं भारतानां पितामहम् 008a
शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन् 008c
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः 009a
भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः 009c
स त्वं कुरु तथा तात स्वमतेन पितामह 010a
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् 010c
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् 011a
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः 011c
अथो सुयोधनं ब्रूया राजपुत्रममर्षणम् 012a
मध्ये कुरूणामासीनमनुनीय पुनः पुनः 012c
अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम् 013a
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति 013c
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः 014a
यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः 014c
यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् 015a
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति 015c
यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत् 016a
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् 016c
यथोचितं स्वकं भागं लभेमहि परन्तप 017a
निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ 017c
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् 018a
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् 018c
कुशस्थलं वृकस्थलमासन्दी वारणावतम् 019a
अवसानं भवेदत्र किञ्चिदेव तु पञ्चमम् 019c
भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन 020a
शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय 020c
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् 021a
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह 021c
अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये 022a
सर्वे सुमनसस्तात शाम्याम भरतर्षभ 022c
अलमेव शमायास्मि तथा युद्धाय सञ्जय 023a
धर्मार्थयोरलं चाहं मृदवे दारुणाय च 023c