सञ्जय उवाच 001
आमन्त्रये त्वा नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु 001a
कच्चिन्न वाचा वृजिनं हि किञ्चिदुच्चारितं मे मनसोऽभिषङ्गात् 001c
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् 002a
आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः 002c
युधिष्ठिर उवाच 003
अनुज्ञातः सञ्जय स्वस्ति गच्छ न नोऽकार्षीरप्रियं जातु किञ्चित् 003a
विद्मश्च त्वा ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् 003c
आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक्शीलवान्दृष्टिमांश्च 004a
न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुध्येरुच्यमानोऽपि तथ्यम् 004c
न मर्मगां जातु वक्तासि रूक्षां नोपस्तुतिं कटुकां नोत शुक्ताम् 005a
धर्मारामामर्थवतीमहिंस्रामेतां वाचं तव जानामि सूत 005c
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः 006a
अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं धनञ्जयस्यात्मसमः सखासि 006c
इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः 007a
विशुद्धवीर्यांश्चरणोपपन्नान्कुले जातान्सर्वधर्मोपपन्नान् 007c
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु 008a
अभिवाद्या वै मद्वचनेन वृद्धास्तथेतरेषां कुशलं वदेथाः 008c
पुरोहितं धृतराष्ट्रस्य राज्ञ आचार्याश्च ऋत्विजो ये च तस्य 009a
तैश्च त्वं तात सहितैर्यथार्हं सङ्गच्छेथाः कुशलेनैव सूत 009c
आचार्य इष्टोऽनपगो विधेयो वेदानीप्सन्ब्रह्मचर्यं चचार 010a
योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् 010c
अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे 011a
गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः 011c
शारद्वतस्यावसथं स्म गत्वा महारथस्यास्त्रविदां वरस्य 012a
त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः 012c
यस्मिञ्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च 013a
पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः 013c
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी 014a
तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम् 014c
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः 015a
प्रशास्ता वै पृथिवी येन सर्वा सुयोधनं कुशलं तात पृच्छेः 015c
भ्राता कनीयानपि तस्य मन्दस्तथाशीलः सञ्जय सोऽपि शश्वत् 016a
महेष्वासः शूरतमः कुरूणां दुःशासनं कुशलं तात पृच्छेः 016c
वृन्दारकं कविमर्थेष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् 017a
न तस्य युद्धं रोचते वै कदा चिद्वैश्यापुत्रं कुशलं तात पृच्छेः 017c
निकर्तने देवने योऽद्वितीयश्छन्नोपधः साधुदेवी मताक्षः 018a
यो दुर्जयो देवितव्येन सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः 018c
यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म 019a
स बाह्लिकानामृषभो मनस्वी पुरा यथा माभिवदेत्प्रसन्नः 019c
गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः 020a
स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे 020c
अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता सञ्जय मत्सखा च 021a
महेष्वासो रथिनामुत्तमो यः सहामात्यः कुशलं तस्य पृच्छेः 021c
ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः 022a
यं यमेषां येन येनाभिगच्छेरनामयं मद्वचनेन वाच्यः 022c
ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित् 023a
वसातयः शाल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः 023c
प्राच्योदीच्या दाक्षिणात्याश्च शूरास्तथा प्रतीच्याः पार्वतीयाश्च सर्वे 024a
अनृशंसाः शीलवृत्तोपपन्नास्तेषां सर्वेषां कुशलं तात पृच्छेः 024c
हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसङ्घा महान्तः 025a
आख्याय मां कुशलिनं स्म तेषामनामयं परिपृच्छेः समग्रान् 025c
तथा राज्ञो ह्यर्थयुक्तानमात्यान्दौवारिकान्ये च सेनां नयन्ति 026a
आयव्ययं ये गणयन्ति युक्ता अर्थांश्च ये महतश्चिन्तयन्ति 026c
गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी 027a
मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः 027c
यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृष्यान्विजेतुम् 028a
यो मुह्यतां मोहयिताद्वितीयो वैकर्तनं कुशलं तात पृच्छेः 028c
स एव भक्तः स गुरुः स भृत्यः स वै पिता स च माता सुहृच्च 029a
अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तात पृच्छेः 029c
वृद्धाः स्त्रियो याश्च गुणोपपन्ना या ज्ञायन्ते सञ्जय मातरस्ताः 030a
ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः 030c
कच्चित्पुत्रा जीवपुत्राः सुसम्यग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् 031a
इति स्मोक्त्वा सञ्जय ब्रूहि पश्चादजातशत्रुः कुशली सपुत्रः 031c
या नो भार्याः सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः 032a
सुसङ्गुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः 032c
कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम् 033a
यथा च वः स्युः पतयोऽनुकूलास्तथा वृत्तिमात्मनः स्थापयध्वम् 033c
या नः स्नुषाः सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः 034a
प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः 034c
कन्याः स्वजेथाः सदनेषु सञ्जय अनामयं मद्वचनेन पृष्ट्वा 035a
कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः 035c
अलङ्कृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः 036a
लघु यासां दर्शनं वाक्च लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः 036c
दासीपुत्रा ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः 037a
आख्याय मां कुशलिनं स्म तेभ्यो अनामयं परिपृच्छेर्जघन्यम् 037c
कच्चिद्वृत्तिर्वर्तते वै पुराणी कच्चिद्भोगान्धार्तराष्ट्रो ददाति 038a
अङ्गहीनान्कृपणान्वामनांश्च आनृशंस्याद्धृतराष्ट्रो बिभर्ति 038c
अन्धाश्च सर्वे स्थविरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति 039a
आख्याय मां कुशलिनं स्म तेषामनामयं परिपृच्छेर्जघन्यम् 039c
मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम् 040a
निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये 040c
सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति 041a
पश्याम्यहं युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् 041c
ये चानाथा दुर्बलाः सर्वकालमात्मन्येव प्रयतन्तेऽथ मूढाः 042a
तांश्चापि त्वं कृपणान्सर्वथैव अस्मद्वाक्यात्कुशलं तात पृच्छेः 042c
ये चाप्यन्ये संश्रिता धार्तराष्ट्रान्नानादिग्भ्योऽभ्यागताः सूतपुत्र 043a
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वान्सम्पृच्छेथाः कुशलं चाव्ययं च 043c
एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् 044a
पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः 044c
न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः 045a
धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय 045c
इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः 046a
यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् 046c
न विद्यते युक्तिरेतस्य का चिन्नैवंविधाः स्याम यथा प्रियं ते 047a
ददस्व वा शक्रपुरं ममैव युध्यस्व वा भारतमुख्य वीर 047c