वासुदेव उवाच 001
अविनाशं सञ्जय पाण्डवानामिच्छाम्यहं भूतिमेषां प्रियं च 001a
तथा राज्ञो धृतराष्ट्रस्य सूत सदाशंसे बहुपुत्रस्य वृद्धिम् 001c
कामो हि मे सञ्जय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति 002a
राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समर्थम् 002c
सुदुष्करश्चात्र शमो हि नूनं प्रदर्शितः सञ्जय पाण्डवेन 003a
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नात्र मूर्च्छेत् 003c
तत्त्वं धर्मं विचरन्सञ्जयेह मत्तश्च जानासि युधिष्ठिराच्च 004a
अथो कस्मात्सञ्जय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म 004c
यथाख्यातमावसतः कुटुम्बं पुराकल्पात्साधु विलोपमात्थ 004e
अस्मिन्विधौ वर्तमाने यथावदुच्चावचा मतयो ब्राह्मणानाम् 005a
कर्मणाहुः सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके 005c
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्विद्वानपीह विदितं ब्राह्मणानाम् 005e
या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम् 006a
तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयार्तः 006c
सोऽयं विधिर्विहितः कर्मणैव तद्वर्तते सञ्जय तत्र कर्म 007a
तत्र योऽन्यत्कर्मणः साधु मन्येन्मोघं तस्य लपितं दुर्बलस्य 007c
कर्मणामी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा 008a
अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः 008c
मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमा अभ्युपैति 009a
अतन्द्रितो दहते जातवेदाः समिध्यमानः कर्म कुर्वन्प्रजाभ्यः 009c
अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन 010a
अतन्द्रिताः शीघ्रमपो वहन्ति सन्तर्पयन्त्यः सर्वभूतानि नद्यः 010c
अतन्द्रितो वर्षति भूरितेजाः सन्नादयन्नन्तरिक्षं दिवं च 011a
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् 011c
हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप 012a
सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च 012c
एतानि सर्वाण्युपसेवमानो देवराज्यं मघवान्प्राप मुख्यम् 012e
बृहस्पतिर्ब्रह्मचर्यं चचार समाहितः संशितात्मा यथावत् 013a
हित्वा सुखं प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः 013c
नक्षत्राणि कर्मणामुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे 014a
यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च शुभ्राः 014c
ब्रह्मचर्यं वेदविद्याः क्रियाश्च निषेवमाणा मुनयोऽमुत्र भान्ति 014e
जानन्निमं सर्वलोकस्य धर्मं ब्राह्मणानां क्षत्रियाणां विशां च 015a
स कस्मात्त्वं जानतां ज्ञानवान्सन्व्यायच्छसे सञ्जय कौरवार्थे 015c
आम्नायेषु नित्यसंयोगमस्य तथाश्वमेधे राजसूये च विद्धि 016a
संयुज्यते धनुषा वर्मणा च हस्तत्राणै रथशस्त्रैश्च भूयः 016c
ते चेदिमे कौरवाणामुपायमधिगच्छेयुरवधेनैव पार्थाः 017a
धर्मत्राणं पुण्यमेषां कृतं स्यादार्ये वृत्ते भीमसेनं निगृह्य 017c
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम् 018a
यथाशक्त्या पूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् 018c
उताहो त्वं मन्यसे सर्वमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम् 019a
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि 019c
चातुर्वर्ण्यस्य प्रथमं विभागमवेक्ष्य त्वं सञ्जय स्वं च कर्म 020a
निशम्याथो पाण्डवानां स्वकर्म प्रशंस वा निन्द वा या मतिस्ते 020c
अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात्तीर्थमुख्यानि चैव 021a
अध्यापयेद्याजयेच्चापि याज्यान्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् 021c
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा 022a
यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान्कृत्वा पुण्यकृदावसेद्गृहान् 022c
वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन्पालयन्नप्रमत्तः 023a
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् 023c
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः 024a
नित्योत्थितो भूतयेऽतन्द्रितः स्यादेष स्मृतः शूद्रधर्मः पुराणः 024c
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे 025a
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान् 025c
श्रेयांस्तस्माद्यदि विद्येत कश्चिदभिज्ञातः सर्वधर्मोपपन्नः 026a
स तं दुष्टमनुशिष्यात्प्रजानन्न चेद्गृध्येदिति तस्मिन्न साधु 026c
यदा गृध्येत्परभूमिं नृशंसो विधिप्रकोपाद्बलमाददानः 027a
ततो राज्ञां भविता युद्धमेतत्तत्र जातं वर्म शस्त्रं धनुश्च 027c
इन्द्रेणेदं दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च 027e
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः 028a
उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे 028c
योऽयं लोभान्मन्यते धर्ममेतं यमिच्छते मन्युवशानुगामी 028e
भागः पुनः पाण्डवानां निविष्टस्तं नोऽकस्मादाददीरन्परे वै 029a
अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः 029c
एतान्धर्मान्कौरवाणां पुराणानाचक्षीथाः सञ्जय राज्यमध्ये 029e
ये ते मन्दा मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः 030a
इदं पुनः कर्म पापीय एव सभामध्ये पश्य वृत्तं कुरूणाम् 030c
प्रियां भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम् 031a
यदुपेक्षन्त कुरवो भीष्ममुख्याः कामानुगेनोपरुद्धां रुदन्तीम् 031c
तं चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः 032a
मम प्रियं धृतराष्ट्रोऽकरिष्यत्पुत्राणां च कृतमस्याभविष्यत् 032c
दुःशासनः प्रातिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम् 033a
सा तत्र नीता करुणान्यवोचन्नान्यं क्षत्तुर्नाथमदृष्ट कञ्चित् 033c
कार्पण्यादेव सहितास्तत्र राज्ञो नाशक्नुवन्प्रतिवक्तुं सभायाम् 034a
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् 034c
अनुक्त्वा त्वं धर्ममेवं सभायामथेच्छसे पाण्डवस्योपदेष्टुम् 035a
कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तद्धि सभां समेत्य 035c
येन कृच्छ्रात्पाण्डवानुज्जहार तथात्मानं नौरिव सागरौघात् 035e
यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे 036a
न ते गतिर्विद्यते याज्ञसेनि प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म 036c
पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व 036e
यो बीभत्सोर्हृदये प्रौढ आसीदस्थिप्रच्छिन्मर्मघाती सुघोरः 037a
कर्णाच्छरो वाङ्मयस्तिग्मतेजाः प्रतिष्ठितो हृदये फल्गुनस्य 037c
कृष्णाजिनानि परिधित्समानान्दुःशासनः कटुकान्यभ्यभाषत् 038a
एते सर्वे षण्ढतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् 038c
गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थान् 039a
पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या 039c
जानासि त्वं सञ्जय सर्वमेतद्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम् 040a
स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् 040c
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामथ चेच्चरेयम् 041a
पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् 041c
अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् 042a
अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः 042c
अतोऽन्यथा रथिना फल्गुनेन भीमेन चैवाहवदंशितेन 043a
परासिक्तान्धार्तराष्ट्रांस्तु विद्धि प्रदह्यमानान्कर्मणा स्वेन मन्दान् 043c
पराजितान्पाण्डवेयांस्तु वाचो रौद्ररूपा भाषते धार्तराष्ट्रः 044a
गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयित्वा हि काले 044c
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः 045a
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी 045c
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः 046a
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च 046c
वनं राजा धृतराष्ट्रः सपुत्रो व्याघ्रा वने सञ्जय पाण्डवेयाः 047a
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् 047c
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् 048a
तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् 048c
लताधर्मा धार्तराष्ट्राः शालाः सञ्जय पाण्डवाः 049a
न लता वर्धते जातु अनाश्रित्य महाद्रुमम् 049c
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः 050a
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः 050c
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः 051a
योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् 051c