युधिष्ठिर उवाच 001
असंशयं सञ्जय सत्यमेतद्धर्मो वरः कर्मणां यत्त्वमात्थ 001a
ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरामि 001c
यत्राधर्मो धर्मरूपाणि बिभ्रद्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः 002a
तथा धर्मो धारयन्धर्मरूपं विद्वांसस्तं सम्प्रपश्यन्ति बुद्ध्या 002c
एवमेतावापदि लिङ्गमेतद्धर्माधर्मौ वृत्तिनित्यौ भजेताम् 003a
आद्यं लिङ्गं यस्य तस्य प्रमाणमापद्धर्मं सञ्जय तं निबोध 003c
लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत्तत्परीप्सेद्विहीनः 004a
प्रकृतिस्थश्चापदि वर्तमान उभौ गर्ह्यौ भवतः सञ्जयैतौ 004c
अविलोपमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद्विधात्रा 005a
आपद्यथाकर्मसु वर्तमानान्विकर्मस्थान्सञ्जय गर्हयेत 005c
मनीषिणां तत्त्वविच्छेदनाय विधीयते सत्सु वृत्तिः सदैव 006a
अब्राह्मणाः सन्ति तु ये न वैद्याः सर्वोच्छेदं साधु मन्येत तेभ्यः 006c
तदर्था नः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये 007a
प्रज्ञैषिणो ये च हि कर्म चक्रुर्नास्त्यन्ततो नास्ति नास्तीति मन्ये 007c
यत्किञ्चिदेतद्वित्तमस्यां पृथिव्यां यद्देवानां त्रिदशानां परत्र 008a
प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः सञ्जय कामये तत् 008c
धर्मेश्वरः कुशलो नीतिमांश्चाप्युपासिता ब्राह्मणानां मनीषी 009a
नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः 009c
यदि ह्यहं विसृजन्स्यामगर्ह्यो युध्यमानो यदि जह्यां स्वधर्मम् 010a
महायशाः केशवस्तद्ब्रवीतु वासुदेवस्तूभयोरर्थकामः 010c
शैनेया हि चैत्रकाश्चान्धकाश्च वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च 011a
उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून्सुहृदो नन्दयन्ति 011c
वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः 012a
मनस्विनः सत्यपराक्रमाश्च महाबला यादवा भोगवन्तः 012c
काश्यो बभ्रुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम् 013a
यस्मै कामान्वर्षति वासुदेवो ग्रीष्मात्यये मेघ इव प्रजाभ्यः 013c
ईदृशोऽयं केशवस्तात भूयो विद्मो ह्येनं कर्मणां निश्चयज्ञम् 014a
प्रियश्च नः साधुतमश्च कृष्णो नातिक्रमे वचनं केशवस्य 014c