सञ्जय उवाच 001
धर्मे नित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ 001a
महास्रावं जीवितं चाप्यनित्यं सम्पश्य त्वं पाण्डव मा विनीनशः 001c
न चेद्भागं कुरवोऽन्यत्र युद्धात्प्रयच्छन्ते तुभ्यमजातशत्रो 002a
भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् 002c
अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च 003a
भूयश्च तद्वयसो नानुरूपं तस्मात्पापं पाण्डव मा प्रसार्षीः 003c
कामा मनुष्यं प्रसजन्त एव धर्मस्य ये विघ्नमूलं नरेन्द्र 004a
पूर्वं नरस्तान्धृतिमान्विनिघ्नल्ँलोके प्रशंसां लभतेऽनवद्याम् 004c
निबन्धनी ह्यर्थतृष्णेह पार्थ तामेषतो बाध्यते धर्म एव 005a
धर्मं तु यः प्रवृणीते स बुद्धः कामे गृद्धो हीयतेऽर्थानुरोधात् 005c
धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति 006a
हानेन धर्मस्य महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः 006c
वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् 007a
परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः 007c
सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म 008a
वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः 008c
एवं पुनरर्थचर्याप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम् 009a
अश्रद्दधत्परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः 009c
न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाप्यथ वा पापकानाम् 010a
पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेतदनुयात्येव कर्ता 010c
न्यायोपेतं ब्राह्मणेभ्यो यदन्नं श्रद्धापूतं गन्धरसोपपन्नम् 011a
अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते 011c
इह क्षेत्रे क्रियते पार्थ कार्यं न वै किञ्चिद्विद्यते प्रेत्य कार्यम् 012a
कृतं त्वया पारलोक्यं च कार्यं पुण्यं महत्सद्भिरनुप्रशस्तम् 012c
जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसश्चाप्रियाणि 013a
न कर्तव्यं विद्यते तत्र किञ्चिदन्यत्र वै इन्द्रियप्रीणनार्थात् 013c
एवंरूपं कर्मफलं नरेन्द्र मात्रावता हृदयस्य प्रियेण 014a
स क्रोधजं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराय 014c
अन्तं गत्वा कर्मणां या प्रशंसा सत्यं दमश्चार्जवमानृशंस्यम् 015a
अश्वमेधो राजसूयस्तथेष्टः पापस्यान्तं कर्मणो मा पुनर्गाः 015c
तच्चेदेवं देशरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय 016a
निवसध्वं वर्षपूगान्वनेषु दुःखं वासं पाण्डवा धर्महेतोः 016c
अप्रव्रज्ये योजयित्वा पुरस्तादात्माधीनं यद्बलं ते तदासीत् 017a
नित्यं पाञ्चालाः सचिवास्तवेमे जनार्दनो युयुधानश्च वीरः 017c
मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सह पुत्रैर्विराटः 018a
राजानश्च ये विजिताः पुरस्तात्त्वामेव ते संश्रयेयुः समस्ताः 018c
महासहायः प्रतपन्बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम् 019a
वरान्हनिष्यन्द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् 019c
बलं कस्माद्वर्धयित्वा परस्य निजान्कस्मात्कर्शयित्वा सहायान् 020a
निरुष्य कस्माद्वर्षपूगान्वनेषु युयुत्ससे पाण्डव हीनकालम् 020c
अप्रज्ञो वा पाण्डव युध्यमानो अधर्मज्ञो वा भूतिपथाद्व्यपैति 021a
प्रज्ञावान्वा बुध्यमानोऽपि धर्मं संरम्भाद्वा सोऽपि भूतेरपैति 021c
नाधर्मे ते धीयते पार्थ बुद्धिर्न संरम्भात्कर्म चकर्थ पापम् 022a
अद्धा किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् 022c
अव्याधिजं कटुकं शीर्षरोगं यशोमुषं पापफलोदयं च 023a
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य 023c
पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः 024a
यत्र भीष्मः शान्तनवो हतः स्याद्यत्र द्रोणः सहपुत्रो हतः स्यात् 024c
कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च 025a
एतान्हत्वा कीदृशं तत्सुखं स्याद्यद्विन्देथास्तदनुब्रूहि पार्थ 025c
लब्ध्वापीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः 026a
प्रियाप्रिये सुखदुःखे च राजन्नेवं विद्वान्नैव युद्धं कुरुष्व 026c
अमात्यानां यदि कामस्य हेतोरेवंयुक्तं कर्म चिकीर्षसि त्वम् 027a
अपाक्रमेः सम्प्रदाय स्वमेभ्यो मा गास्त्वं वै देवयानात्पथोऽद्य 027c