युधिष्ठिर उवाच 001
कां नु वाचं सञ्जय मे शृणोषि युद्धैषिणीं येन युद्धाद्बिभेषि 001a
अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युध्येत सूत 001c
अकुर्वतश्चेत्पुरुषस्य सञ्जय सिध्येत्सङ्कल्पो मनसा यं यमिच्छेत् 002a
न कर्म कुर्याद्विदितं ममैतदन्यत्र युद्धाद्बहु यल्लघीयः 002c
कुतो युद्धं जातु नरः प्रजानन्को दैवशप्तोऽभिवृणीत युद्धम् 003a
सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम् 003c
कर्मोदयं सुखमाशंसमानः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् 004a
सुखप्रेप्सुर्विजिघांसुश्च दुःखं य इन्द्रियाणां प्रीतिवशानुगामी 004c
कामाभिध्या स्वशरीरं दुनोति यया प्रयुक्तोऽनुकरोति दुःखम् 004e
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य 005a
कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः 005c
सम्पश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः 005e
नाश्रेयसामीश्वरो विग्रहाणां नाश्रेयसां गीतशब्दं शृणोति 006a
नाश्रेयसः सेवते माल्यगन्धान्न चाप्यश्रेयांस्यनुलेपनानि 006c
नाश्रेयसः प्रावरानध्यवस्ते कथं त्वस्मान्सम्प्रणुदेत्कुरुभ्यः 007a
अत्रैव च स्यादवधूय एष कामः शरीरे हृदयं दुनोति 007c
स्वयं राजा विषमस्थः परेषु सामस्थ्यमन्विच्छति तन्न साधु 008a
यथात्मनः पश्यति वृत्तमेव तथा परेषामपि सोऽभ्युपैति 008c
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य 009a
यथा वृद्धं वायुवशेन शोचेत्क्षेमं मुमुक्षुः शिशिरव्यपाये 009c
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते सञ्जय कस्य हेतोः 010a
प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु 010c
अनाप्तः सन्नाप्ततमस्य वाचं सुयोधनो विदुरस्यावमन्य 011a
सुतस्य राजा धृतराष्ट्रः प्रियैषी सम्बुध्यमानो विशतेऽधर्ममेव 011c
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् 012a
सूत राजा धृतराष्ट्रः कुरुभ्यो न सोऽस्मरद्विदुरं पुत्रकाम्यात् 012c
मानघ्नस्य आत्मकामस्य चेर्ष्योः संरम्भिणश्चार्थधर्मातिगस्य 013a
दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दुर्हृदो भावनस्य 013c
अनेयस्याश्रेयसो दीर्घमन्योर्मित्रद्रुहः सञ्जय पापबुद्धेः 014a
सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्रजहाद्धर्मकामौ 014c
तदैव मे सञ्जय दीव्यतोऽभून्नो चेत्कुरूनागतः स्यादभावः 015a
काव्यां वाचं विदुरो भाषमाणो न विन्दते धृतराष्ट्रात्प्रशंसाम् 015c
क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्न तदाभ्याजगाम 016a
यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव 016c
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत 017a
दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य सम्मोहमस्य 017c
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् 018a
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ 018c
आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम् 019a
तस्मिञ्शमः केवलं नोपलभ्यो अत्यासन्नं मद्गतं मन्यतेऽर्थम् 019c
यत्तत्कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनेन 020a
आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम् 020c
कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च 021a
अन्ये च ये कुरवस्तत्र सन्ति यथार्जुनान्नास्त्यपरो धनुर्धरः 021c
जानन्त्येते कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः 022a
दुर्योधनं चापराधे चरन्तमरिन्दमे फल्गुनेऽविद्यमाने 022c
तेनार्थबद्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम् 023a
किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा 023c
गाण्डीवविस्फारितशब्दमाजावशृण्वाना धार्तराष्ट्रा ध्रियन्ते 024a
क्रुद्धस्य चेद्भीमसेनस्य वेगात्सुयोधनो मन्यते सिद्धमर्थम् 024c
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तुमैश्वर्यं नो जीवति भीमसेने 025a
धनञ्जये नकुले चैव सूत तथा वीरे सहदेवे मदीये 025c
स चेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत 026a
एवं रणे पाण्डवकोपदग्धा न नश्येयुः सञ्जय धार्तराष्ट्राः 026c
जानासि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्सञ्जयाहं क्षमेयम् 027a
यच्चास्माकं कौरवैर्भूतपूर्वं या नो वृत्तिर्धार्तराष्ट्रे तदासीत् 027c
अद्यापि तत्तत्र तथैव वर्ततां शान्तिं गमिष्यामि यथा त्वमात्थ 028a
इन्द्रप्रस्थे भवतु ममैव राज्यं सुयोधनो यच्छतु भारताग्र्यः 028c