युधिष्ठिर उवाच 001
समागताः पाण्डवाः सृञ्जयाश्च जनार्दनो युयुधानो विराटः 001a
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत्सूतपुत्र 001c
सञ्जय उवाच 002
अजातशत्रुं च वृकोदरं च धनञ्जयं माद्रवतीसुतौ च 002a
आमन्त्रये वासुदेवं च शौरिं युयुधानं चेकितानं विराटम् 002c
पाञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्षतं याज्ञसेनिम् 003a
सर्वे वाचं शृणुतेमां मदीयां वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् 003c
शमं राजा धृतराष्ट्रोऽभिनन्दन्नयोजयत्त्वरमाणो रथं मे 004a
सभ्रातृपुत्रस्वजनस्य राज्ञस्तद्रोचतां पाण्डवानां शमोऽस्तु 004c
सर्वैर्धर्मैः समुपेताः स्थ पार्थाः प्रस्थानेन मार्दवेनार्जवेन 005a
जाताः कुले अनृशंसा वदान्या ह्रीनिषेधाः कर्मणां निश्चयज्ञाः 005c
न युज्यते कर्म युष्मासु हीनं सत्त्वं हि वस्तादृशं भीमसेनाः 006a
उद्भासते ह्यञ्जनबिन्दुवत्तच्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः 006c
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयोऽभावसंस्थः 007a
कस्तत्कुर्याज्जातु कर्म प्रजानन्पराजयो यत्र समो जयश्च 007c
ते वै धन्या यैः कृतं ज्ञातिकार्यं ये वः पुत्राः सुहृदो बान्धवाश्च 008a
उपक्रुष्टं जीवितं सन्त्यजेयुस्ततः कुरूणां नियतो वै भवः स्यात् 008c
ते चेत्कुरूननुशास्य स्थ पार्था निनीय सर्वान्द्विषतो निगृह्य 009a
समं वस्तज्जीवितं मृत्युना स्याद्यज्जीवध्वं ज्ञातिवधे न साधु 009c
को ह्येव युष्मान्सह केशवेन सचेकितानान्पार्षतबाहुगुप्तान् 010a
ससात्यकीन्विषहेत प्रजेतुं लब्ध्वापि देवान्सचिवान्सहेन्द्रान् 010c
को वा कुरून्द्रोणभीष्माभिगुप्तानश्वत्थाम्ना शल्यकृपादिभिश्च 011a
रणे प्रसोढुं विषहेत राजन्राधेयगुप्तान्सह भूमिपालैः 011c
महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः 012a
सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किञ्चित् 012c
कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः 013a
सोऽहं प्रसाद्य प्रणतो वासुदेवं पाञ्चालानामधिपं चैव वृद्धम् 013c
कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् 014a
न ह्येव ते वचनं वासुदेवो धनञ्जयो वा जातु किञ्चिन्न कुर्यात् 014c
प्राणानादौ याच्यमानः कुतोऽन्यदेतद्विद्वन्साधनार्थं ब्रवीमि 015a
एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वः शान्तिरिहोत्तमा स्यात् 015c