सञ्जय उवाच 001
यथार्हसे पाण्डव तत्तथैव कुरून्कुरुश्रेष्ठ जनं च पृच्छसि 001a
अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् 001c
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे सन्त्येव पापाः पाण्डव तस्य विद्धि 002a
दद्याद्रिपोश्चापि हि धार्तराष्ट्रः कुतो दायाँल्लोपयेद्ब्राह्मणानाम् 002c
यद्युष्माकं वर्ततेऽसौ न धर्म्यमद्रुग्धेषु द्रुग्धवत्तन्न साधु 003a
मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो युष्मान्द्विषन्साधुवृत्तानसाधुः 003c
न चानुजानाति भृशं च तप्यते शोचत्यन्तः स्थविरोऽजातशत्रो 004a
शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो गरीयान् 004c
स्मरन्ति तुभ्यं नरदेव सङ्गमे युद्धे च जिष्णोश्च युधां प्रणेतुः 005a
समुत्कृष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति 005c
माद्रीसुतौ चापि रणाजिमध्ये सर्वा दिशः सम्पतन्तौ स्मरन्ति 006a
सेनां वर्षन्तौ शरवर्षैरजस्रं महारथौ समरे दुष्प्रकम्प्यौ 006c
न त्वेव मन्ये पुरुषस्य राजन्ननागतं ज्ञायते यद्भविष्यम् 007a
त्वं चेदिमं सर्वधर्मोपपन्नः प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् 007c
त्वमेवैतत्सर्वमतश्च भूयः समीकुर्याः प्रज्ञयाजातशत्रो 008a
न कामार्थं सन्त्यजेयुर्हि धर्मं पाण्डोः सुताः सर्व एवेन्द्रकल्पाः 008c
त्वमेवैतत्प्रज्ञयाजातशत्रो शमं कुर्या येन शर्माप्नुयुस्ते 009a
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ये चाप्यन्ये पार्थिवाः सन्निविष्टाः 009c
यन्माब्रवीद्धृतराष्ट्रो निशायामजातशत्रो वचनं पिता ते 010a
सहामात्यः सहपुत्रश्च राजन्समेत्य तां वाचमिमां निबोध 010c