वैशम्पायन उवाच 001
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः 001a
उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः 001c
स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् 002a
प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत 002c
गावल्गणिः सञ्जयः सूतसूनुरजातशत्रुमवदत्प्रतीतः 003a
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् 003c
अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी 004a
कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ 004c
कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सपुत्रा 005a
मनस्विनी यत्र च वाञ्छसि त्वमिष्टान्कामान्भारत स्वस्तिकामः 005c
युधिष्ठिर उवाच 006
गावल्गणे सञ्जय स्वागतं ते प्रीतात्माहं त्वाभिवदामि सूत 006a
अनामयं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन् 006c
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत 007a
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् 007c
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः 008a
स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरप्यस्य कच्चित् 008c
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा 009a
महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र 009c
स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवाः सत्यसन्धः शलश्च 010a
द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः 010c
महाप्राज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् 011a
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कच्चिदेतेऽप्यरोगाः 011c
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां युवानः 012a
येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः 012c
वैश्यापुत्रः कुशली तात कच्चिन्महाप्राज्ञो राजपुत्रो युयुत्सुः 013a
कर्णोऽमात्यः कुशली तात कच्चित्सुयोधनो यस्य मन्दो विधेयः 013c
स्त्रियो वृद्धा भारतानां जनन्यो महानस्यो दासभार्याश्च सूत 014a
वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः 014c
कच्चिद्राजा ब्राह्मणानां यथावत्प्रवर्तते पूर्ववत्तात वृत्तिम् 015a
कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां सञ्जय नोपहन्ति 015c
कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै 016a
कच्चिन्न हेतोरिव वर्त्मभूत उपेक्षते तेषु स न्यूनवृत्तिम् 016c
एतज्ज्योतिरुत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा 017a
ते चेल्लोभं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् 017c
कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे 018a
कच्चिन्न भेदेन जिजीविषन्ति सुहृद्रूपा दुर्हृदश्चैकमित्राः 018c
कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव 019a
कच्चिद्दृष्ट्वा दस्युसङ्घान्समेतान्स्मरन्ति पार्थस्य युधां प्रणेतुः 019c
मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण 020a
गाण्डीवमुक्तान्स्तनयित्नुघोषानजिह्मगान्कच्चिदनुस्मरन्ति 020c
न ह्यपश्यं कञ्चिदहं पृथिव्यां श्रुतं समं वाधिकमर्जुनेन 021a
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः सम्मतो हस्तवापः 021c
गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्शत्रुसङ्घाननीके 022a
नागः प्रभिन्न इव नड्वलासु चङ्क्रम्यते कच्चिदेनं स्मरन्ति 022c
माद्रीपुत्रः सहदेवः कलिङ्गान्समागतानजयद्दन्तकूरे 023a
वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति 023c
उद्यन्नयं नकुलः प्रेषितो वै गावल्गणे सञ्जय पश्यतस्ते 024a
दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति 024c
अभ्याभवो द्वैतवने य आसीद्दुर्मन्त्रिते घोषयात्रागतानाम् 025a
यत्र मन्दाञ्शत्रुवशं प्रयातानमोचयद्भीमसेनो जयश्च 025c
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनश्च चक्रे 026a
गाण्डीवभृच्छत्रुसङ्घानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति 026c
न कर्मणा साधुनैकेन नूनं कर्तुं शक्यं भवतीह सञ्जय 027a
सर्वात्मना परिजेतुं वयं चेन्न शक्नुमो धृतराष्ट्रस्य पुत्रम् 027c