धृतराष्ट्र उवाच 001
प्राप्तानाहुः सञ्जय पाण्डुपुत्रानुपप्लव्ये तान्विजानीहि गत्वा 001a
अजातशत्रुं च सभाजयेथा दिष्ट्यानघ ग्राममुपस्थितस्त्वम् 001c
सर्वान्वदेः सञ्जय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हा निरुष्य 002a
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्योपेतानामुपकारिणां सताम् 002c
नाहं क्वचित्सञ्जय पाण्डवानां मिथ्यावृत्तिं काञ्चन जात्वपश्यम् 003a
सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा पर्याकार्षुः पाण्डवा मह्यमेव 003c
दोषं ह्येषां नाधिगच्छे परीक्षन्नित्यं कञ्चिद्येन गर्हेय पार्थान् 004a
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिया नानुरुध्यन्ति कामान् 004c
घर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् 005a
धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगान्प्रयतन्ति पार्थाः 005c
त्यजन्ति मित्रेषु धनानि काले न संवासाज्जीर्यति मैत्रमेषाम् 006a
यथार्हमानार्थकरा हि पार्थास्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे 006c
अन्यत्र पापाद्विषमान्मन्दबुद्धेर्दुर्योधनात्क्षुद्रतराच्च कर्णात् 007a
तेषां हीमे हीनसुखप्रियाणां महात्मनां सञ्जनयन्ति तेजः 007c
उत्थानवीर्यः सुखमेधमानो दुर्योधनः सुकृतं मन्यते तत् 008a
तेषां भागं यच्च मन्येत बालः शक्यं हर्तुं जीवतां पाण्डवानाम् 008c
यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः 009a
माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे पुरा युद्धात्साधु तस्य प्रदानम् 009c
स ह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः 010a
तथा विष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा 010c
तिष्ठेत कस्तस्य मर्त्यः पुरस्ताद्यः सर्वदेवेषु वरेण्य ईड्यः 011a
पर्जन्यघोषान्प्रवपञ्शरौघान्पतङ्गसङ्घानिव शीघ्रवेगान् 011c
दिशं ह्युदीचीमपि चोत्तरान्कुरून्गाण्डीवधन्वैकरथो जिगाय 012a
धनं चैषामाहरत्सव्यसाची सेनानुगान्बलिदांश्चैव चक्रे 012c
यश्चैव देवान्खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान् 013a
उपाहरत्फल्गुनो जातवेदसे यशो मानं वर्धयन्पाण्डवानाम् 013c
गदाभृतां नाद्य समोऽस्ति भीमाद्धस्त्यारोहो नास्ति समश्च तस्य 014a
रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्बले चायुतनागवीर्यम् 014c
सुशिक्षितः कृतवैरस्तरस्वी दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान् 015a
सदात्यमर्षी बलवान्न शक्यो युद्धे जेतुं वासवेनापि साक्षात् 015c
सुचेतसौ बलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फल्गुनेन 016a
श्येनौ यथा पक्षिपूगान्रुजन्तौ माद्रीपुत्रौ नेह कुरून्विशेताम् 016c
तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः 017a
सहामात्यः सोमकानां प्रबर्हः सन्त्यक्तात्मा पाण्डवानां जयाय 017c
सहोषितश्चरितार्थो वयःस्थः शाल्वेयानामधिपो वै विराटः 018a
सह पुत्रैः पाण्डवार्थे च शश्वद्युधिष्ठिरं भक्त इति श्रुतं मे 018c
अवरुद्धा बलिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति 019a
केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्चानुवसन्ति पार्थान् 019c
सर्वे च वीराः पृथिवीपतीनां समानीताः पाण्डवार्थे निविष्टाः 020a
शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान्संश्रितान्धर्मराजम् 020c
गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजा विशुद्धाः 021a
म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थे निविष्टाः 021c
पाण्ड्यश्च राजामित इन्द्रकल्पो युधि प्रवीरैर्बहुभिः समेतः 022a
समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः 022c
अस्त्रं द्रोणादर्जुनाद्वासुदेवात्कृपाद्भीष्माद्येन कृतं शृणोमि 023a
यं तं कार्ष्णिप्रतिमं प्राहुरेकं स सात्यकिः पाण्डवार्थे निविष्टः 023c
अपाश्रिताश्चेदिकरूषकाश्च सर्वोत्साहैर्भूमिपालैः समेताः 024a
तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम् 024c
अस्तम्भनीयं युधि मन्यमानं ज्याकर्षतां श्रेष्ठतमं पृथिव्याम् 025a
सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा ममर्द 025c
यशोमानौ वर्धयन्यादवानां पुराभिनच्छिशुपालं समीके 026a
यस्य सर्वे वर्धयन्ति स्म मानं करूषराजप्रमुखा नरेन्द्राः 026c
तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम् 027a
सम्प्राद्रवंश्चेदिपतिं विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये 027c
यस्तं प्रतीपस्तरसा प्रत्युदीयादाशंसमानो द्वैरथे वासुदेवम् 028a
सोऽशेत कृष्णेन हतः परासुर्वातेनेवोन्मथितः कर्णिकारः 028c
पराक्रमं मे यदवेदयन्त तेषामर्थे सञ्जय केशवस्य 029a
अनुस्मरंस्तस्य कर्माणि विष्णोर्गावल्गणे नाधिगच्छामि शान्तिम् 029c
न जातु ताञ्शत्रुरन्यः सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः 030a
प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ 030c
नो चेद्गच्छेत्सङ्गरं मन्दबुद्धिस्ताभ्यां सुतो मे विपरीतचेताः 031a
नो चेत्कुरून्सञ्जय निर्दहेतामिन्द्राविष्णू दैत्यसेनां यथैव 031c
मतो हि मे शक्रसमो धनञ्जयः सनातनो वृष्णिवीरश्च विष्णुः 031e
धर्मारामो ह्रीनिषेधस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः 032a
दुर्योधनेन निकृतो मनस्वी नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् 032c
नाहं तथा ह्यर्जुनाद्वासुदेवाद्भीमाद्वापि यमयोर्वा बिभेमि 033a
यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव 033c
अलं तपोब्रह्मचर्येण युक्तः सङ्कल्पोऽयं मानसस्तस्य सिध्येत् 034a
तस्य क्रोधं सञ्जयाहं समीके स्थाने जानन्भृशमस्म्यद्य भीतः 034c
स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूं परेत्य 035a
अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम् 035c
जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम् 036a
अनामयं मद्वचनेन पृच्छेर्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः 036c
न तस्य किञ्चिद्वचनं न कुर्यात्कुन्तीपुत्रो वासुदेवस्य सूत 037a
प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः 037c
समानीय पाण्डवान्सृञ्जयांश्च जनार्दनं युयुधानं विराटम् 038a
अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च 038c
यद्यत्तत्र प्राप्तकालं परेभ्यस्त्वं मन्येथा भारतानां हितं च 039a
तत्तद्भाषेथाः सञ्जय राजमध्ये न मूर्छयेद्यन्न भवेच्च युद्धम् 039c