वैशम्पायन उवाच 001
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः 001a
सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् 001c
दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः 002a
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः 002c
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः 003a
दिष्ट्या न युद्धमनसः सह दामोदरेण ते 003c
भवता सत्यमुक्तं च सर्वमेतन्न संशयः 004a
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः 004c
असंशयं क्लेशितास्ते वने चेह च पाण्डवाः 005a
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् 005c
किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः 006a
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् 006c
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः 007a
त्रयाणामपि लोकानां समर्थ इति मे मतिः 007c
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान् 008a
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् 008c
न तन्न विदितं ब्रह्मल्ँलोके भूतेन केनचित् 009a
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः 009c
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा 010a
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः 010c
न तं समयमादृत्य राज्यमिच्छति पैतृकम् 011a
बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः 011c
दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः 012a
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च 012c
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः 013a
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः 013c
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः 014a
अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम् 014c
अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः 015a
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम 015c
भीष्म उवाच 016
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि 016a
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि 016c
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् 017a
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् 017c
वैशम्पायन उवाच 018
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च 018a
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् 018c
अस्मद्धितमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् 019a
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा 019c
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् 020a
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् 020c
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् 021a
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् 021c