वैशम्पायन उवाच 001
स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः 001a
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च 001c
सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम् 002a
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह 002c
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः 003a
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति 003c
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ 004a
तयोः समानं द्रविणं पैतृकं नात्र संशयः 004c
धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु 005a
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु 005c
एवं गते पाण्डवेयैर्विदितं वः पुरा यथा 006a
न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् 006c
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः 007a
शेषवन्तो न शकिता नयितुं यमसादनम् 007c
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः 008a
छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः 008c
तदप्यनुमतं कर्म तथायुक्तमनेन वै 009a
वासिताश्च महारण्ये वर्षाणीह त्रयोदश 009c
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् 010a
अरण्ये विविधाः क्लेशाः सम्प्राप्तास्तैः सुदारुणाः 010c
तथा विराटनगरे योन्यन्तरगतैरिव 011a
प्राप्तः परमसङ्क्लेशो यथा पापैर्महात्मभिः 011c
ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् 012a
सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुङ्गवाः 012c
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च 013a
अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः 013c
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह 014a
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् 014c
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति 015a
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते 015c
अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य सङ्गताः 016a
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् 016c
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः 017a
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ 017c
एकादशैताः पृतना एकतश्च समागताः 018a
एकतश्च महाबाहुर्बहुरूपो धनञ्जयः 018c
यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते 019a
एवमेव महाबाहुर्वासुदेवो महाद्युतिः 019c
बहुलत्वं च सेनानां विक्रमं च किरीटिनः 020a
बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः 020c
ते भवन्तो यथाधर्मं यथासमयमेव च 021a
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् 021c