वैशम्पायन उवाच 001
युयुधानस्ततो वीरः सात्वतानां महारथः 001a
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् 001c
तस्य योधा महावीर्या नानादेशसमागताः 002a
नानाप्रहरणा वीराः शोभयाञ्चक्रिरे बलम् 002c
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः 003a
शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः 003c
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि 004a
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् 004c
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च 005a
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः 005c
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् 006a
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा 006c
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली 007a
धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः 007c
मागधश्च जयत्सेनो जारासन्धिर्महाबलः 008a
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् 008c
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः 009a
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् 009c
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे 010a
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा 010c
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः 011a
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः 011c
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः 012a
पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् 012c
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् 013a
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः 013c
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् 013e
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् 014a
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ 014c
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् 015a
बभौ बलमनाधृष्यं कर्णिकारवनं यथा 015c
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन 016a
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् 016c
कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह 017a
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् 017c
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् 018a
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः 018c
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः 019a
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् 019c
तेषामक्षौहिणी सेना बहुला विबभौ तदा 020a
विधूयमाना वातेन बहुरूपा इवाम्बुदाः 020c
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा 021a
उपाजगाम कौरव्यमक्षौहिण्या विशां पते 021c
तस्य सेनासमावायः शलभानामिवाबभौ 022a
स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा 022c
तथा माहिष्मतीवासी नीलो नीलायुधैः सह 023a
महीपालो महावीर्यैर्दक्षिणापथवासिभिः 023c
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ 024a
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् 024c
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः 025a
संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् 025c
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् 026a
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ 026c
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः 027a
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः 027c
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा 028a
राज्ञां सबलमुख्यानां प्राधान्येनापि भारत 028c
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् 029a
तथा रोहितकारण्यं मरुभूमिश्च केवला 029c
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत 030a
वारणा वाटधानं च यामुनश्चैव पर्वतः 030c
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् 031a
बभूव कौरवेयाणां बलेन सुसमाकुलः 031c
तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः 032a
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति 032c