शल्य उवाच 001
ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः 001a
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् 001c
पावकश्च महातेजा महर्षिश्च बृहस्पतिः 002a
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः 002c
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः 003a
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः 003c
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः 004a
मुदा परमया युक्तः पालयामास देवराट् 004c
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत 005a
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् 005c
ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत 006a
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा 006c
अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति 007a
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे 007c
एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा 008a
व्यसर्जयन्महाराज देवराजः शतक्रतुः 008c
सम्पूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् 009a
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः 009c
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया 010a
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया 010c
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने 011a
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः 011c
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत 012a
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन 012c
दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः 013a
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः 013c
एवं तव दुरात्मानः शत्रवः शत्रुसूदन 014a
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः 014c
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् 015a
भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो 015c
उपाख्यानमिदं शक्रविजयं वेदसम्मितम् 016a
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता 016c
तस्मात्संश्रावयामि त्वां विजयं जयतां वर 017a
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर 017c
क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम् 018a
दुर्योधनापराधेन भीमार्जुनबलेन च 018c
आख्यानमिन्द्रविजयं य इदं नियतः पठेत् 019a
धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते 019c
न चारिजं भयं तस्य न चापुत्रो भवेन्नरः 020a
नापदं प्राप्नुयात्काञ्चिद्दीर्घमायुश्च विन्दति 020c
सर्वत्र जयमाप्नोति न कदाचित्पराजयम् 020e
वैशम्पायन उवाच 021
एवमाश्वासितो राजा शल्येन भरतर्षभ 021a
पूजयामास विधिवच्छल्यं धर्मभृतां वरः 021c
श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः 022a
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः 022c
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः 023a
तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः 023c
शल्य उवाच 024
एवमेतत्करिष्यामि यथा मां सम्प्रभाषसे 024a
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव 024c
वैशम्पायन उवाच 025
तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा 025a
जगाम सबलः श्रीमान्दुर्योधनमरिन्दमः 025c