शल्य उवाच 001
अथ सञ्चिन्तयानस्य देवराजस्य धीमतः 001a
नहुषस्य वधोपायं लोकपालैः सहैव तैः 001c
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत 001e
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् 002a
विश्वरूपविनाशेन वृत्रासुरवधेन च 002c
दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरन्दर 003a
दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन 003c
इन्द्र उवाच 004
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव 004a
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे 004c
शल्य उवाच 005
पूजितं चोपविष्टं तमासने मुनिसत्तमम् 005a
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् 005c
एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम 006a
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः 006c
अगस्त्य उवाच 007
शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् 007a
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः 007c
श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम् 008a
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः 008c
पप्रच्छुः संशयं देव नहुषं जयतां वर 008e
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् 009a
एते प्रमाणं भवत उताहो नेति वासव 009c
नहुषो नेति तानाह तमसा मूढचेतनः 009e
ऋषय ऊचुः 010
अधर्मे सम्प्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे 010a
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः 010c
अगस्त्य उवाच 011
ततो विवदमानः स मुनिभिः सह वासव 011a
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः 011c
तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते 012a
ततस्तमहमाविग्नमवोचं भयपीडितम् 012c
यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम् 013a
अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा 013c
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् 014a
वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः 014c
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम् 015a
दश वर्षसहस्राणि सर्परूपधरो महान् 015c
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि 015e
एवं भ्रष्टो दुरात्मा स देवराज्यादरिन्दम 016a
दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः 016c
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते 017a
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः 017c
शल्य उवाच 018
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः 018a
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा 018c
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः 019a
सरांसि सरितः शैलाः सागराश्च विशां पते 019c
उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन् 020a
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता 020c
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले 020e