बृहस्पतिरुवाच 001
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् 001a
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् 001c
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः 002a
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन 002c
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् 003a
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् 003c
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः 004a
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे 004c
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः 005a
सर्वस्यास्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा 005c
त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि 006a
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः 006c
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् 007a
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु पावक 007c
स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः 008a
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः 008c
शल्य उवाच 009
एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः 009a
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् 009c
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते 009e
प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः 010a
आजगाम सरस्तच्च गूढो यत्र शतक्रतुः 010c
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ 011a
अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम् 011c
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः 012a
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् 012c
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः 013a
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् 013c
महासुरो हतः शक्र नमुचिर्दारुणस्त्वया 014a
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ 014c
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय 015a
उत्तिष्ठ वज्रिन्सम्पश्य देवर्षींश्च समागतान् 015c
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो 016a
अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् 016c
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते 016e
त्वं सर्वभूतेषु वरेण्य ईड्यस्त्वया समं विद्यते नेह भूतम् 017a
त्वया धार्यन्ते सर्वभूतानि शक्र त्वं देवानां महिमानं चकर्थ 017c
पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि 018a
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः 018c
स्वं चैव वपुरास्थाय बभूव स बलान्वितः 019a
अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम् 019c
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः 020a
वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः 020c
बृहस्पतिरुवाच 021
मानुषो नहुषो राजा देवर्षिगणतेजसा 021a
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् 021c
इन्द्र उवाच 022
कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् 022a
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते 022c
बृहस्पतिरुवाच 023
देवा भीताः शक्रमकामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत् 023a
तदा देवाः पितरोऽथर्षयश्च गन्धर्वसङ्घाश्च समेत्य सर्वे 023c
गत्वाब्रुवन्नहुषं शक्र तत्र त्वं नो राजा भव भुवनस्य गोप्ता 024a
तानब्रवीन्नहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा च 024c
एवमुक्तैर्वर्धितश्चापि देवै राजाभवन्नहुषो घोरवीर्यः 025a
त्रैलोक्ये च प्राप्य राज्यं तपस्विनः कृत्वा वाहान्याति लोकान्दुरात्मा 025c
तेजोहरं दृष्टिविषं सुघोरं मा त्वं पश्येर्नहुषं वै कदाचित् 026a
देवाश्च सर्वे नहुषं भयार्ता न पश्यन्तो गूढरूपाश्चरन्ति 026c
शल्य उवाच 027
एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः 027a
वैवस्वतश्चैव यमः पुराणो देवश्च सोमो वरुणश्चाजगाम 027c
ते वै समागम्य महेन्द्रमूचुर्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः 028a
दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र 028c
स तान्यथावत्प्रतिभाष्य शक्रः सञ्चोदयन्नहुषस्यान्तरेण 029a
राजा देवानां नहुषो घोररूपस्तत्र साह्यं दीयतां मे भवद्भिः 029c
ते चाब्रुवन्नहुषो घोररूपो दृष्टीविषस्तस्य बिभीम देव 030a
त्वं चेद्राजन्नहुषं पराजयेस्तद्वै वयं भागमर्हाम शक्र 030c
इन्द्रोऽब्रवीद्भवतु भवानपां पतिर्यमः कुबेरश्च महाभिषेकम् 031a
सम्प्राप्नुवन्त्वद्य सहैव तेन रिपुं जयामो नहुषं घोरदृष्टिम् 031c
ततः शक्रं ज्वलनोऽप्याह भागं प्रयच्छ मह्यं तव साह्यं करिष्ये 032a
तमाह शक्रो भविताग्ने तवापि ऐन्द्राग्नो वै भाग एको महाक्रतौ 032c
एवं सञ्चिन्त्य भगवान्महेन्द्रः पाकशासनः 033a
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा 033c
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा 034a
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा 034c