शल्य उवाच 001
एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत् 001a
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः 001c
विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि 002a
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि 002c
गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् 003a
गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे 003c
ऋषियानेन दिव्येन मामुपैहि जगत्पते 004a
एवं तव वशे प्रीता भविष्यामीति तं वद 004c
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा 005a
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति 005c
नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत् 006a
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते 006c
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि 007a
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे 007c
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस 008a
सत्येन वै शपे देवि कर्तास्मि वचनं तव 008c
इन्द्राण्युवाच 009
यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते 009a
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप 009c
कार्यं च हृदि मे यत्तद्देवराजावधारय 010a
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि 010c
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव 010e
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा 011a
इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप 011c
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् 011e
वहन्तु त्वां महाराज ऋषयः सङ्गता विभो 012a
सर्वे शिबिकया राजन्नेतद्धि मम रोचते 012c
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि 013a
सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् 013c
न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् 013e
शल्य उवाच 014
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल 014a
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् 014c
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि 015a
दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने 015c
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् 016a
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः 016c
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् 017a
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः 017c
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते 018a
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् 018c
तस्मात्ते वचनं देवि करिष्यामि न संशयः 019a
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा 019c
पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि 019e
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् 020a
विमाने योजयित्वा स ऋषीन्नियममास्थितान् 020c
अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च 021a
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् 021c
नहुषेण विसृष्टा च बृहस्पतिमुवाच सा 022a
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः 022c
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् 022e
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् 023a
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः 023c
न ह्येष स्थास्यति चिरं गत एष नराधमः 024a
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे 024c
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः 025a
शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते 025c
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः 026a
बृहस्पतिर्महातेजा देवराजोपलब्धये 026c
तस्माच्च भगवान्देवः स्वयमेव हुताशनः 027a
स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत 027c
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च 028a
पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः 028c
निमेषान्तरमात्रेण बृहस्पतिमुपागमत् 028e
अग्निरुवाच 029
बृहस्पते न पश्यामि देवराजमहं क्वचित् 029a
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् 029c
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते 029e
शल्य उवाच 030
तमब्रवीद्देवगुरुरपो विश महाद्युते 030a
अग्निरुवाच 031
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति 031a
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते 031c
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 032a
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 032c