शल्य उवाच 001
अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः 001a
तां वयोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम् 001c
इन्द्राणी सम्प्रहृष्टा सा सम्पूज्यैनामपृच्छत 002a
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने 002c
उपश्रुतिरुवाच 003
उपश्रुतिरहं देवि तवान्तिकमुपागता 003a
दर्शनं चैव सम्प्राप्ता तव सत्येन तोषिता 003c
पतिव्रतासि युक्ता च यमेन नियमेन च 004a
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् 004c
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् 004e
शल्य उवाच 005
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् 005a
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः 005c
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् 005e
समुद्रं च समासाद्य बहुयोजनविस्तृतम् 006a
आससाद महाद्वीपं नानाद्रुमलतावृतम् 006c
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् 007a
शतयोजनविस्तीर्णं तावदेवायतं शुभम् 007c
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत 008a
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः 008c
पद्मस्य भित्त्वा नालं च विवेश सहिता तया 009a
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् 009c
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् 010a
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा 010c
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः 011a
स्तूयमानस्ततो देवः शचीमाह पुरन्दरः 011c
किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम् 012a
ततः सा कथयामास नहुषस्य विचेष्टितम् 012c
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः 013a
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो 013c
उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम 013e
यदि न त्रास्यसि विभो करिष्यति स मां वशे 014a
एतेन चाहं सन्तप्ता प्राप्ता शक्र तवान्तिकम् 014c
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् 014e
प्रकाशयस्व चात्मानं दैत्यदानवसूदन 015a
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च 015c