शल्य उवाच 001
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा 001a
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते 001c
भजस्व मां वरारोहे पतित्वे वरवर्णिनि 001e
एवमुक्ता तु सा देवी नहुषेण पतिव्रता 002a
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा 002c
नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम् 003a
देवराजमथोवाच नहुषं घोरदर्शनम् 003c
कालमिच्छाम्यहं लब्धुं किञ्चित्त्वत्तः सुरेश्वर 004a
न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः 004c
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो 005a
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते 005c
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् 005e
नहुष उवाच 006
एवं भवतु सुश्रोणि यथा मामभिभाषसे 006a
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः 006c
शल्य उवाच 007
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा 007a
बृहस्पतिनिकेतं सा जगाम च तपस्विनी 007c
तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः 008a
मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम 008c
देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना 009a
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः 009c
ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः 010a
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः 010c
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् 010e
त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया 011a
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश 011c
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् 012a
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् 012c
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः 013a
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः 013c
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः 014a
कञ्चित्कालमिमं देवा मर्षयध्वमतन्द्रिताः 014c
श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम् 015a
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः 015c
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः 015e
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः 016a
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप 016c
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च 017a
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर 017c
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः 018a
विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् 018c
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः 019a
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् 019c
ततः शचीपतिर्वीरः पुनरेव व्यनश्यत 020a
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह 020c
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता 021a
हा शक्रेति तदा देवी विललाप सुदुःखिता 021c
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि 022a
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि 022c
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे 023a
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः 023c
प्रयता च निशां देवीमुपातिष्ठत तत्र सा 024a
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् 024c
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे 025a
इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् 025c