शल्य उवाच 001
क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः 001a
अब्रुवन्देवराजानं नहुषं घोरदर्शनम् 001c
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो 002a
त्रस्तं सासुरगन्धर्वं सकिन्नरमहोरगम् 002c
जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः 003a
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर 003c
निवर्तय मनः पापात्परदाराभिमर्शनात् 004a
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय 004c
एवमुक्तो न जग्राह तद्वचः काममोहितः 005a
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः 005c
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी 006a
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः 006c
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा 007a
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः 007c
उपतिष्ठतु मां देवी एतदस्या हितं परम् 008a
युष्माकं च सदा देवाः शिवमेवं भविष्यति 008c
देवा ऊचुः 009
इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते 009a
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर 009c
शल्य उवाच 010
इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत 010a
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः 010c
जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि 011a
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम 011c
ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते 012a
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् 012c
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः 013a
वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी 013c
एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् 014a
उवाच रुदती दीना बृहस्पतिमिदं वचः 014c
नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् 015a
शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात् 015c
बृहस्पतिरुवाच 016
शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् 016a
धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते 016c
नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः 017a
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् 017c
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः 018a
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् 018c
न तस्य बीजं रोहति बीजकाले न चास्य वर्षं वर्षति वर्षकाले 019a
भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते त्राणमिच्छन् 019c
मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः 020a
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः 020c
प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते 021a
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् 021c
एतदेवं विजानन्वै न दास्यामि शचीमिमाम् 022a
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् 022c
अस्या हितं भवेद्यच्च मम चापि हितं भवेत् 023a
क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् 023c
शल्य उवाच 024
अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् 024a
कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते 024c
बृहस्पतिरुवाच 025
नहुषं याचतां देवी किञ्चित्कालान्तरं शुभा 025a
इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति 025c
बहुविघ्नकरः कालः कालः कालं नयिष्यति 026a
दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् 026c
शल्य उवाच 027
ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन् 027a
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् 027c
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् 027e
ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः 028a
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया 028c
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् 029a
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति 029c
क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः 030a
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति 030c
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये 031a
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् 031c
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् 032a
समहृष्यत दुष्टात्मा कामोपहतचेतनः 032c