शल्य उवाच 001
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः 001a
अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् 001c
ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव 001e
स तानुवाच नहुषो देवानृषिगणांस्तथा 002a
पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः 002c
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने 003a
बलवाञ्जायते राजा बलं शक्रे हि नित्यदा 003c
तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः 004a
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे 004c
परस्परभयं घोरमस्माकं हि न संशयः 005a
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे 005c
देवदानवयक्षाणामृषीणां रक्षसां तथा 006a
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् 006c
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि 006e
धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव 007a
ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे 007c
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे 008a
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत 008c
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च 009a
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते 009c
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च 009e
अप्सरोभिः परिवृतो देवकन्यासमावृतः 010a
नहुषो देवराजः सन्क्रीडन्बहुविधं तदा 010c
शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः 011a
वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् 011c
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः 012a
ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः 012c
मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः 012e
एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः 013a
सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया 013c
स तां सन्दृश्य दुष्टात्मा प्राह सर्वान्सभासदः 014a
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति 014c
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः 015a
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् 015c
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह 016a
रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता 016c
सर्वलक्षणसम्पन्नां ब्रह्मंस्त्वं मां प्रभाषसे 017a
देवराजस्य दयितामत्यन्तसुखभागिनीम् 017c
अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम् 018a
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् 018c
नोक्तपूर्वं च भगवन्मृषा ते किञ्चिदीश्वर 019a
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम 019c
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् 020a
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् 020c
द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम् 021a
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते 021c
समानयिष्ये शक्रेण नचिराद्भवतीमहम् 021e
अथ शुश्राव नहुष इन्द्राणीं शरणं गताम् 022a
बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा 022c