इन्द्र उवाच 001
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् 001a
न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत् 001c
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम् 002a
कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः 002c
तेजस्वी च महात्मा च युद्धे चामितविक्रमः 003a
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् 003c
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः 004a
विष्णोः क्षयमुपागम्य समेत्य च महात्मना 004c
तेन सम्मन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः 004e
शल्य उवाच 005
एवमुक्ते मघवता देवाः सर्षिगणास्तदा 005a
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् 005c
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः 006a
त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो 006c
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे 007a
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः 007c
त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम् 008a
त्वं हि देव महादेवः सर्वलोकनमस्कृतः 008c
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम 009a
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन 009c
विष्णुरुवाच 010
अवश्यं करणीयं मे भवतां हितमुत्तमम् 010a
तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति 010c
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् 011a
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ 011c
भविष्यति गतिर्देवाः शक्रस्य मम तेजसा 012a
अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् 012c
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः 013a
वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् 013c
शल्य उवाच 014
एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा 014a
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् 014c
समीपमेत्य च तदा सर्व एव महौजसः 015a
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश 015c
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा 016a
ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः 016c
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः 017a
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय 017c
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् 018a
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह 018c
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः 019a
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा 019c
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् 019e
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः 020a
उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः 020c
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः 021a
यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः 021c
सन्धिः कथं वै भविता मम शक्रस्य चोभयोः 022a
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् 022c
ऋषय ऊचुः 023
सकृत्सतां सङ्गतं लिप्सितव्यं ततः परं भविता भव्यमेव 023a
नातिक्रमेत्सत्पुरुषेण सङ्गतं तस्मात्सतां सङ्गतं लिप्सितव्यम् 023c
दृढं सतां सङ्गतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः 024a
महार्थवत्सत्पुरुषेण सङ्गतं तस्मात्सन्तं न जिघांसेत धीरः 024c
इन्द्रः सतां सम्मतश्च निवासश्च महात्मनाम् 025a
सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः 025c
तेन ते सह शक्रेण सन्धिर्भवतु शाश्वतः 026a
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा 026c
शल्य उवाच 027
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः 027a
अवश्यं भगवन्तो मे माननीयास्तपस्विनः 027c
ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह 028a
ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः 028c
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा 029a
न शस्त्रेण न वज्रेण न दिवा न तथा निशि 029c
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः 030a
एवं मे रोचते सन्धिः शक्रेण सह नित्यदा 030c
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ 031a
एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् 031c
यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः 032a
वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् 032c
रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा 032e
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् 033a
सन्ध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे 033c
ततः सञ्चिन्त्य भगवान्वरदानं महात्मनः 034a
सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च 034c
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः 034e
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् 035a
महाबलं महाकायं न मे श्रेयो भविष्यति 035c
एवं सञ्चिन्तयन्नेव शक्रो विष्णुमनुस्मरन् 036a
अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् 036c
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा 037a
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति 037c
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् 038a
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् 038c
निहते तु ततो वृत्रे दिशो वितिमिराभवन् 039a
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा 039c
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः 040a
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः 040c
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् 041a
हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः 041c
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् 041e
ततो हते महावीर्ये वृत्रे देवभयङ्करे 042a
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः 042c
त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया 042e
सोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः 043a
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः 043c
प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः 043e
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते 044a
भूमिः प्रध्वस्तसङ्काशा निर्वृक्षा शुष्ककानना 044c
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च 044e
सङ्क्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् 045a
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः 045c
अराजकं जगत्सर्वमभिभूतमुपद्रवैः 046a
ततो भीताभवन्देवाः को नो राजा भवेदिति 046c
दिवि देवर्षयश्चापि देवराजविनाकृताः 047a
न च स्म कश्चिद्देवानां राज्याय कुरुते मनः 047c