युधिष्ठिर उवाच 001
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना 001a
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् 001c
शल्य उवाच 002
शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् 002a
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत 002c
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः 003a
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् 003c
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः 004a
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः 004c
वेदानेकेन सोऽधीते सुरामेकेन चापिबत् 005a
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते 005c
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः 006a
तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिन्दम 006c
तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः 007a
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति 007c
कथं सज्जेत भोगेषु न च तप्येन्महत्तपः 008a
विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् 008c
इति सञ्चिन्त्य बहुधा बुद्धिमान्भरतर्षभ 009a
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने 009c
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् 010a
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् 010c
शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः 011a
प्रलोभयत भद्रं वः शमयध्वं भयं मम 011c
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः 012a
भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः 012c
अप्सरस ऊचुः 013
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने 013a
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन 013c
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः 014a
तं प्रलोभयितुं देव गच्छामः सहिता वयम् 014c
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् 014e
शल्य उवाच 015
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् 015a
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः 015c
नृत्यं सन्दर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् 015e
विचेरुः सम्प्रहर्षं च नाभ्यगच्छन्महातपाः 016a
इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः 016c
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः 017a
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् 017c
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो 018a
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् 018c
सम्पूज्याप्सरसः शक्रो विसृज्य च महामतिः 019a
चिन्तयामास तस्यैव वधोपायं महात्मनः 019c
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् 020a
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् 020c
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति 021a
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा 021c
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् 022a
अथ वैश्वानरनिभं घोररूपं भयावहम् 022c
मुमोच वज्रं सङ्क्रुद्धः शक्रस्त्रिशिरसं प्रति 022e
स पपात हतस्तेन वज्रेण दृढमाहतः 023a
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले 023c
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् 024a
न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा 024c
हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते 024e
अभितस्तत्र तक्षाणं घटमानं शचीपतिः 025a
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः 025c
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम 025e
तक्षोवाच 026
महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति 026a
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् 026c
इन्द्र उवाच 027
मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम 027a
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति 027c
तक्षोवाच 028
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै 028a
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे 028c
इन्द्र उवाच 029
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते 029a
कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय 029c
तक्षोवाच 030
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा 030a
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते 030c
इन्द्र उवाच 031
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् 031a
शत्रुरेष महावीर्यो वज्रेण निहतो मया 031c
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै 032a
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव 032c
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः 033a
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् 033c
शल्य उवाच 034
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा 034a
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा 034c
निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ 035a
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः 035c
येन वेदानधीते स्म पिबते सोममेव च 036a
तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः 036c
येन सर्वा दिशो राजन्पिबन्निव निरीक्षते 037a
तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव 037c
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा 038a
कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ 038c
ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् 039a
जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ 039c
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् 040a
क्रोधसंरक्तनयन इदं वचनमब्रवीत् 040c
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् 041a
अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम 041c
तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् 042a
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् 042c
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः 042e
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः 043a
अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह 043c
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम 043e
सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः 044a
किं करोमीति चोवाच कालसूर्य इवोदितः 044c
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः 044e
ततो युद्धं समभवद्वृत्रवासवयोस्तदा 045a
सङ्क्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम 045c
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् 046a
अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः 046c
ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदशास्तदा 047a
असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् 047c
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् 048a
स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलसूदनः 048c
ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता 048e
जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् 049a
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः 049c
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ 049e
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः 050a
त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत 050c
निवृत्ते तु तदा देवा विषादमगमन्परम् 051a
समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः 051c
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत 051e
किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः 052a
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् 052c
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः 052e