वैशम्पायन उवाच 001
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः 001a
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः 001c
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् 002a
तथा हि बहुलां सेनां स बिभर्ति नरर्षभः 002c
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः 003a
विचित्राभरणाः सर्वे विचित्ररथवाहनाः 003c
स्वदेशवेषाभरणा वीराः शतसहस्रशः 004a
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः 004c
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् 005a
शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः 005c
ततो दुर्योधनः श्रुत्वा महासेनं महारथम् 006a
उपायान्तमभिद्रुत्य स्वयमानर्च भारत 006c
कारयामास पूजार्थं तस्य दुर्योधनः सभाः 007a
रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः 007c
स ताः सभाः समासाद्य पूज्यमानो यथामरः 008a
दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः 008c
आजगाम सभामन्यां देवावसथवर्चसम् 008e
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः 009a
मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम् 009c
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः 010a
युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः 010c
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः 010e
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् 011a
तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् 011c
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति 011e
दुर्योधन उवाच 012
सत्यवाग्भव कल्याण वरो वै मम दीयताम् 012a
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति 012c
वैशम्पायन उवाच 013
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति 013a
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः 013c
स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् 014a
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् 014c
उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च 015a
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह 015c
समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा 016a
पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि 016c
ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः 017a
प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् 017c
तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ 018a
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह 018c
कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन 019a
अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर 019c
सुदुष्करं कृतं राजन्निर्जने वसता वने 020a
भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह 020c
अज्ञातवासं घोरं च वसता दुष्करं कृतम् 021a
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत 021c
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै 022a
अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परन्तप 022c
विदितं ते महाराज लोकतत्त्वं नराधिप 023a
तस्माल्लोभकृतं किञ्चित्तव तात न विद्यते 023c
ततोऽस्याकथयद्राजा दुर्योधनसमागमम् 024a
तच्च शुश्रूषितं सर्वं वरदानं च भारत 024c
युधिष्ठिर उवाच 025
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना 025a
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् 025c
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते 025e
भवानिह महाराज वासुदेवसमो युधि 026a
कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम 026c
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः 026e
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि 027a
तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः 027c
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल 027e
शल्य उवाच 028
शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः 028a
तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे 028c
अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम् 029a
वासुदेवेन हि समं नित्यं मां स हि मन्यते 029c
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः 030a
ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे 030c
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव 031a
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते 031c
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् 032a
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् 032c
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह 033a
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै 033c
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते 034a
द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् 034c
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति 035a
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः 035c
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर 036a
देवैरपि हि दुःखानि प्राप्तानि जगतीपते 036c
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना 037a
अनुभूतं महद्दुःखं देवराजेन भारत 037c