वैशम्पायन उवाच 001
गते द्वारवतीं कृष्णे बलदेवे च माधवे 001a
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा 001c
सर्वमागमयामास पाण्डवानां विचेष्टितम् 002a
धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः 002c
स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः 003a
बलेन नातिमहता द्वारकामभ्ययात्पुरीम् 003c
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः 004a
आनर्तनगरीं रम्यां जगामाशु धनञ्जयः 004c
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ 005a
सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः 005c
ततः शयाने गोविन्दे प्रविवेश सुयोधनः 006a
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने 006c
ततः किरीटी तस्यानु प्रविवेश महामनाः 007a
पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः 007c
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् 008a
स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च 008c
तदागमनजं हेतुं पप्रच्छ मधुसूदनः 008e
ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव 009a
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति 009c
समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च 010a
तथा सम्बन्धकं तुल्यमस्माकं त्वयि माधव 010c
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन 011a
पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः 011c
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन 012a
सततं सम्मतश्चैव सद्वृत्तमनुपालय 012c
कृष्ण उवाच 013
भवानभिगतः पूर्वमत्र मे नास्ति संशयः 013a
दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः 013c
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् 014a
साहाय्यमुभयोरेव करिष्यामि सुयोधन 014c
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः 015a
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः 015c
मत्संहननतुल्यानां गोपानामर्बुदं महत् 016a
नारायणा इति ख्याताः सर्वे सङ्ग्रामयोधिनः 016c
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः 017a
अयुध्यमानः सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः 017c
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् 018a
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः 018c
वैशम्पायन उवाच 019
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनञ्जयः 019a
अयुध्यमानं सङ्ग्रामे वरयामास केशवम् 019c
सहस्राणां सहस्रं तु योधानां प्राप्य भारत 020a
कृष्णं चापहृतं ज्ञात्वा सम्प्राप परमां मुदम् 020c
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः 021a
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् 021c
सर्वं चागमने हेतुं स तस्मै सन्न्यवेदयत् 022a
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः 022c
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति 023a
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा 023c
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन 024a
मया सम्बन्धकं तुल्यमिति राजन्पुनः पुनः 024c
न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत 025a
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् 025c
नाहं सहायः पार्थानां नापि दुर्योधनस्य वै 026a
इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह 026c
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते 027a
गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ 027c
इत्येवमुक्तः स तदा परिष्वज्य हलायुधम् 028a
कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम् 028c
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः 029a
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा 029c
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः 030a
वृतः प्रतिययौ हृष्टः सुहृदः सम्प्रहर्षयन् 030c
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् 031a
अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः 031c
अर्जुन उवाच 032
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः 032a
निहन्तुमहमप्येकः समर्थः पुरुषोत्तम 032c
भवांस्तु कीर्तिमाल्ँलोके तद्यशस्त्वां गमिष्यति 033a
यशसा चाहमप्यर्थी तस्मादसि मया वृतः 033c
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा 034a
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति 034c
वासुदेव उवाच 035
उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह 035a
सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव 035c
वैशम्पायन उवाच 036
एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा 036a
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् 036c