द्रुपद उवाच 001
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः 001a
बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः 001c
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः 002a
स भवान्कृतबुद्धीनां प्रधान इति मे मतिः 002c
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च 003a
प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च 003c
विदितं चापि ते सर्वं यथावृत्तः स कौरवः 004a
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः 004c
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः 005a
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते 005c
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् 006a
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् 006c
ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम् 007a
न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम् 007c
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः 008a
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति 008c
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् 009a
भीष्मद्रोणकृपाणां च भेदं सञ्जनयिष्यति 009c
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च 010a
पुनरेकाग्रकरणं तेषां कर्म भविष्यति 010c
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः 011a
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् 011c
भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि 012a
न तथा ते करिष्यन्ति सेनाकर्म न संशयः 012c
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते 013a
सङ्गत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव 013c
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् 014a
कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन् 014c
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् 015a
विभेत्स्यति मनांस्येषामिति मे नात्र संशयः 015c
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् 016a
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः 016c
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च 017a
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये 017c
वैशम्पायन उवाच 018
तथानुशिष्टः प्रययौ द्रुपदेन महात्मना 018a
पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम् 018c