वासुदेव उवाच 001
उपपन्नमिदं वाक्यं सोमकानां धुरन्धरे 001a
अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः 001c
एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम् 002a
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः 002c
किं तु सम्बन्धकं तुल्यमस्माकं कुरुपाण्डुषु 003a
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च 003c
ते विवाहार्थमानीता वयं सर्वे यथा भवान् 004a
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति 004c
भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च 005a
शिष्यवत्ते वयं सर्वे भवामेह न संशयः 005c
भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते 006a
आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च 006c
स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः 007a
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् 007c
यदि तावच्छमं कुर्यान्न्यायेन कुरुपुङ्गवः 008a
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः 008c
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः 009a
अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः 009c
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः 010a
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि 010c
वैशम्पायन उवाच 011
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः 011a
गृहान्प्रस्थापयामास सगणं सहबान्धवम् 011c
द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः 012a
चक्रुः साङ्ग्रामिकं सर्वं विराटश्च महीपतिः 012c
ततः सम्प्रेषयामास विराटः सह बान्धवैः 013a
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः 013c
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते 014a
समाजग्मुर्महीपालाः सम्प्रहृष्टा महाबलाः 014c
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् 015a
धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् 015c
समाकुला मही राजन्कुरुपाण्डवकारणात् 016a
तदा समभवत्कृत्स्ना सम्प्रयाणे महीक्षिताम् 016c
बलानि तेषां वीराणामागच्छन्ति ततस्ततः 017a
चालयन्तीव गां देवीं सपर्वतवनामिमाम् 017c
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् 018a
कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा 018c