द्रुपद उवाच 001
एवमेतन्महाबाहो भविष्यति न संशयः 001a
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति 001c
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः 002a
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ 002c
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते 003a
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता 003c
न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथञ्चन 004a
न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम 004c
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् 005a
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि 005c
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् 006a
जितमर्थं विजानीयादबुधो मार्दवे सति 006c
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह 007a
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः 007c
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः 008a
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः 008c
स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः 009a
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् 009c
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने 010a
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः 010c
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः 011a
भगदत्ताय राज्ञे च पूर्वसागरवासिने 011c
अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च 012a
दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो 012c
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः 013a
पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः 013c
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च 014a
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः 014c
शकानां पह्लवानां च दरदानां च ये नृपाः 015a
काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये 015c
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः 016a
क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः 016c
जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः 017a
पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् 017c
औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् 018a
अपराजितो निषादश्च श्रेणिमान्वसुमानपि 018c
बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः 019a
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् 019c
अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः 020a
समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा 020c
महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः 021a
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् 021c
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः 022a
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः 022c
भूरितेजा देवकश्च एकलव्यस्य चात्मजः 023a
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् 023c
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः 024a
श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् 024c
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः 025a
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते 025c
अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः 026a
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् 026c
यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः 027a
धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः 027c