सात्यकिरुवाच 001
यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते 001a
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे 001c
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा 002a
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति 002c
एकस्मिन्नेव जायेते कुले क्लीबमहारथौ 003a
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ 003c
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज 004a
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव 004c
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् 005a
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः 005c
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः 006a
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः 006c
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह 007a
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् 007c
समाहूय तु राजानं क्षत्रधर्मरतं सदा 008a
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् 008c
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् 009a
वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् 009c
यद्ययं परवित्तानि कामयेत युधिष्ठिरः 010a
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् 010c
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः 011a
निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति 011c
अनुनीता हि भीष्मेण द्रोणेन च महात्मना 012a
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु 012c
अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात् 013a
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः 013c
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः 014a
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति 014c
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः 015a
वेगं समर्थाः संसोढुं वज्रस्येव महीधराः 015c
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि 016a
मां चापि विषहेत्को नु कश्च भीमं दुरासदम् 016c
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती 017a
को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् 017c
पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् 018a
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् 018c
सौभद्रं च महेष्वासममरैरपि दुःसहम् 019a
गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् 019c
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह 020a
कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् 020c
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः 021a
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् 021c
हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः 022a
निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः 022c
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः 023a
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले 023c