बलदेव उवाच 001
श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च 001a
अजातशत्रोश्च हितं हितं च दुर्योधनस्यापि तथैव राज्ञः 001c
अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते 002a
प्रदाय चार्धं धृतराष्ट्रपुत्रः सुखी सहास्माभिरतीव मोदेत् 002c
लब्ध्वा हि राज्यं पुरुषप्रवीराः सम्यक्प्रवृत्तेषु परेषु चैव 003a
ध्रुवं प्रशान्ताः सुखमाविशेयुस्तेषां प्रशान्तिश्च हितं प्रजानाम् 003c
दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य 004a
प्रियं मम स्याद्यदि तत्र कश्चिद्व्रजेच्छमार्थं कुरुपाण्डवानाम् 004c
स भीष्ममामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम् 005a
द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च ससूतपुत्रम् 005c
सर्वे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः 006a
स्थिताश्च धर्मेषु यथा स्वकेषु लोकप्रवीराः श्रुतकालवृद्धाः 006c
एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च सङ्गतेषु 007a
ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात् 007c
सर्वास्ववस्थासु च ते न कौट्याद्ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः 008a
प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रमत्तस्य हृतं च राज्यम् 008c
निवार्यमाणश्च कुरुप्रवीरैः सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः 009a
गान्धारराजस्य सुतं मताक्षं समाह्वयेद्देवितुमाजमीढः 009c
दुरोदरास्तत्र सहस्रशोऽन्ये युधिष्ठिरो यान्विषहेत जेतुम् 010a
उत्सृज्य तान्सौबलमेव चायं समाह्वयत्तेन जितोऽक्षवत्याम् 010c
स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यं सुपराङ्मुखेषु 011a
संरम्भमाणो विजितः प्रसह्य तत्रापराधः शकुनेर्न कश्चित् 011c
तस्मात्प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम् 012a
तथा हि शक्यो धृतराष्ट्रपुत्रः स्वार्थे नियोक्तुं पुरुषेण तेन 012c
वैशम्पायन उवाच 013
एवं ब्रुवत्येव मधुप्रवीरे शिनिप्रवीरः सहसोत्पपात 013a
तच्चापि वाक्यं परिनिन्द्य तस्य समाददे वाक्यमिदं समन्युः 013c