वैशम्पायन उवाच 001
कृत्वा विवाहं तु कुरुप्रवीरास्तदाभिमन्योर्मुदितस्वपक्षाः 001a
विश्रम्य चत्वार्युषसः प्रतीताः सभां विराटस्य ततोऽभिजग्मुः 001c
सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा 002a
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः 002c
अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ 003a
वृद्धश्च मान्यः पृथिवीपतीनां पितामहो रामजनार्दनाभ्याम् 003c
पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः 004a
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च 004c
सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च 005a
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रश्च सहाभिमन्युः 005c
सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव 006a
उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु 006c
तथोपविष्टेषु महारथेषु विभ्राजमानाम्बरभूषणेषु 007a
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता 007c
ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः 008a
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः 008c
कथान्तमासाद्य च माधवेन सङ्घट्टिताः पाण्डवकार्यहेतोः 009a
ते राजसिंहाः सहिता ह्यशृण्वन्वाक्यं महार्थं च महोदयं च 009c
कृष्ण उवाच 010
सर्वैर्भवद्भिर्विदितं यथायं युधिष्ठिरः सौबलेनाक्षवत्याम् 010a
जितो निकृत्यापहृतं च राज्यं पुनः प्रवासे समयः कृतश्च 010c
शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैस्तच्चरितं यथावत् 011a
पाण्डोः सुतैस्तद्व्रतमुग्ररूपं वर्षाणि षट्सप्त च भारताग्र्यैः 011c
त्रयोदशश्चैव सुदुस्तरोऽयमज्ञायमानैर्भवतां समीपे 012a
क्लेशानसह्यांश्च तितिक्षमाणैर्यथोषितं तद्विदितं च सर्वम् 012c
एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् 013a
तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च 013c
अधर्मयुक्तं च न कामयेत राज्यं सुराणामपि धर्मराजः 014a
धर्मार्थयुक्तं च महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् 014c
पित्र्यं हि राज्यं विदितं नृपाणां यथापकृष्टं धृतराष्ट्रपुत्रैः 015a
मिथ्योपचारेण तथाप्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् 015c
न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः 016a
तथापि राजा सहितः सुहृद्भिरभीप्सतेऽनामयमेव तेषाम् 016c
यत्तत्स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्निपीड्य 017a
तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च 017c
बालास्त्विमे तैर्विविधैरुपायैः सम्प्रार्थिता हन्तुममित्रसाहाः 018a
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् 018c
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मात्मतां चापि युधिष्ठिरस्य 019a
सम्बन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्च 019c
इमे च सत्येऽभिरताः सदैव तं पारयित्वा समयं यथावत् 020a
अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् 020c
तैर्विप्रकारं च निशम्य राज्ञः सुहृज्जनास्तान्परिवारयेयुः 021a
युद्धेन बाधेयुरिमांस्तथैव तैर्वध्यमाना युधि तांश्च हन्युः 021c
तथापि नेमेऽल्पतया समर्थास्तेषां जयायेति भवेन्मतं वः 022a
समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव 022c
दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति 023a
अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः 023c
तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः 024a
दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य 024c
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च 025a
समाददे वाक्यमथाग्रजोऽस्य सम्पूज्य वाक्यं तदतीव राजन् 025c