विराट उवाच || 001
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम | 001a
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि || 001c
अर्जुन उवाच || 002
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव | 002a
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि || 002c
प्रियो बहुमतश्चाहं नर्तको गीतकोविदः | 003a
आचार्यवच्च मां नित्यं मन्यते दुहिता तव || 003c
वयःस्थया तया राजन्सह संवत्सरोषितः | 004a
अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो || 004c
तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते | 005a
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया || 005c
स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः | 006a
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति || 006c
अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप | 007a
स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् || 007c
स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा | 008a
दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः || 008c
अभिमन्युर्महाबाहुः पुत्रो मम विशां पते | 009a
जामाता तव युक्तो वै भर्ता च दुहितुस्तव || 009c
विराट उवाच || 010
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये | 010a
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः || 010c
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् | 011a
सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः || 011c
वैशम्पायन उवाच || 012
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः | 012a
अन्वजानात्स संयोगं समये मत्स्यपार्थयोः || 012c
ततो मित्रेषु सर्वेषु वासुदेवे च भारत | 013a
प्रेषयामास कौन्तेयो विराटश्च महीपतिः || 013c
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः | 014a
उपप्लव्ये विराटस्य समपद्यन्त सर्वशः || 014c
तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् | 015a
आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः || 015c
काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे | 016a
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते || 016c
अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः | 017a
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः || 017c
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः || 018a
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः | 018c
सर्वे शस्त्रास्त्रसम्पन्नाः सर्वे शूरास्तनुत्यजः || 018e
तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः | 019a
प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे || 019c
ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः | 020a
तत्रागमद्वासुदेवो वनमाली हलायुधः || 020c
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः || 020e
अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च | 021a
अभिमन्युमुपादाय सह मात्रा परन्तपाः || 021c
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः | 022a
आययुः सहिताः सर्वे परिसंवत्सरोषिताः || 022c
दश नागसहस्राणि हयानां च शतायुतम् | 023a
रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् || 023c
वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः | 024a
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् || 024c
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् | 025a
स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः | 025c
ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः || 025e
ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा | 026a
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि || 026c
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् | 027a
सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् || 027c
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा | 028a
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः || 028c
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः | 029a
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः || 029c
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः | 030a
सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया || 030c
परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम् | 031a
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे || 031c
तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनञ्जयः | 032a
सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा || 032c
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् | 033a
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः || 033c
प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् | 034a
विवाहं कारयामास सौभद्रस्य महात्मनः || 034c
तस्मै सप्त सहस्राणि हयानां वातरंहसाम् | 035a
द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा || 035c
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः | 036a
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः || 036c
गोसहस्राणि रत्नानि वस्त्राणि विविधानि च | 037a
भूषणानि च मुख्यानि यानानि शयनानि च || 037c
तन्महोत्सवसङ्काशं हृष्टपुष्टजनावृतम् | 038a
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ || 038c