विराट उवाच || 001
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः | 001a
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली || 001c
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी | 002a
यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् || 002c
अर्जुन उवाच || 003
य एष बल्लवो ब्रूते सूदस्तव नराधिप | 003a
एष भीमो महाबाहुर्भीमवेगपराक्रमः || 003c
एष क्रोधवशान्हत्वा पर्वते गन्धमादने | 004a
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् || 004c
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् | 005a
व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव || 005c
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः | 006a
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ || 006c
शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ | 007a
नानारथसहस्राणां समर्थौ पुरुषर्षभौ || 007c
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी | 008a
सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः || 008c
अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः | 009a
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः || 009c
उषिताः स्म महाराज सुखं तव निवेशने | 010a
अज्ञातवासमुषिता गर्भवास इव प्रजाः || 010c
वैशम्पायन उवाच || 011
यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः | 011a
तदार्जुनस्य वैराटिः कथयामास विक्रमम् || 011c
अयं स द्विषतां मध्ये मृगाणामिव केसरी | 012a
अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् || 012c
अनेन विद्धो मातङ्गो महानेकेषुणा हतः | 013a
हिरण्यकक्ष्यः सङ्ग्रामे दन्ताभ्यामगमन्महीम् || 013c
अनेन विजिता गावो जिताश्च कुरवो युधि | 014a
अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ || 014c
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् | 015a
उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे || 015c
प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये | 016a
उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् || 016c
उत्तर उवाच || 017
अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् | 017a
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः || 017c
विराट उवाच || 018
अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः | 018a
मोक्षितो भीमसेनेन गावश्च विजितास्तथा || 018c
एतेषां बाहुवीर्येण यदस्माकं जयो मृधे | 019a
वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् | 019c
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् || 019e
यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः | 020a
क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः || 020c
वैशम्पायन उवाच || 021
ततो विराटः परमाभितुष्टः समेत्य राज्ञा समयं चकार | 021a
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा || 021c
पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् | 022a
धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् || 022c
समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः | 023a
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ || 023c
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः | 024a
सम्प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् || 024c
दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात् | 025a
दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः || 025c
इदं च राज्यं नः पार्था यच्चान्यद्वसु किञ्चन | 026a
प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया || 026c
उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः | 027a
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः || 027c
एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम् | 028a
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् || 028c
प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव | 029a
युक्तश्चावां हि सम्बन्धो मत्स्यभारतसत्तमौ || 029c