वैशम्पायन उवाच || 04065001
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः | 04065001a
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः || 04065001c
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः | 04065002a
अभिपद्मा यथा नागा भ्राजमाना महारथाः || 04065002c
विराटस्य सभां गत्वा भूमिपालासनेष्वथ | 04065003a
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः || 04065003c
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः | 04065004a
आजगाम सभां कर्तुं राजकार्याणि सर्वशः || 04065004c
श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव | 04065005a
अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् | 04065005c
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् || 04065005e
स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः | 04065006a
अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः || 04065006c
परिहासेप्सया वाक्यं विराटस्य निशम्य तत् | 04065007a
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् || 04065007c
इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति | 04065008a
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः || 04065008c
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः | 04065009a
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा || 04065009c
संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः | 04065010a
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः || 04065010c
एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् | 04065011a
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् || 04065011c
त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः | 04065012a
सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुः सदा || 04065012c
एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः | 04065013a
अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः || 04065013c
एनं नित्यमुपासन्त कुरवः किङ्करा यथा | 04065014a
सर्वे च राजन्राजानो धनेश्वरमिवामराः || 04065014c
एष सर्वान्महीपालान्करमाहारयत्तदा | 04065015a
वैश्यानिव महाराज विवशान्स्ववशानपि || 04065015c
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् | 04065016a
उपजीवन्ति राजानमेनं सुचरितव्रतम् || 04065016c
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् | 04065017a
पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो || 04065017c
एष धर्मे दमे चैव क्रोधे चापि यतव्रतः | 04065018a
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः || 04065018c
श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः | 04065019a
सगणः सह कर्णेन सौबलेनापि वा विभुः || 04065019c
न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर | 04065020a
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः || 04065020c
एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः | 04065021a
कथं नार्हति राजार्हमासनं पृथिवीपतिः || 04065021c