वैशम्पायन उवाच || 001
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवीञ्जयः | 001a
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत || 001c
स तं रुधिरसंसिक्तमनेकाग्रमनागसम् | 002a
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् || 002c
ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः | 003a
केनायं ताडितो राजन्केन पापमिदं कृतम् || 003c
विराट उवाच || 004
मयायं ताडितो जिह्मो न चाप्येतावदर्हति | 004a
प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति || 004c
उत्तर उवाच || 005
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् | 005a
मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् || 005c
वैशम्पायन उवाच || 006
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः | 006a
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् || 006c
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत | 007a
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम || 007c
यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः | 008a
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः || 008c
न दूषयामि ते राजन्यच्च हन्याददूषकम् | 009a
बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् || 009c
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा | 010a
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत || 010c
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् | 011a
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः || 011c
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन | 012a
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति || 012c
पदं पदसहस्रेण यश्चरन्नापराध्नुयात् | 013a
तेन कर्णेन ते तात कथमासीत्समागमः || 013c
मनुष्यलोके सकले यस्य तुल्यो न विद्यते | 014a
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः | 014c
तेन भीष्मेण ते तात कथमासीत्समागमः || 014e
आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः | 015a
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः | 015c
तेन द्रोणेन ते तात कथमासीत्समागमः || 015e
आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि | 016a
अश्वत्थामेति विख्यातः कथं तेन समागमः || 016c
रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा | 017a
कृपेण तेन ते तात कथमासीत्समागमः || 017c
पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः | 018a
दुर्योधनेन ते तात कथमासीत्समागमः || 018c
उत्तर उवाच || 019
न मया निर्जिता गावो न मया निर्जिताः परे | 019a
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् || 019c
स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् | 020a
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा || 020c
तेन ता निर्जिता गावस्तेन ते कुरवो जिताः | 021a
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् || 021c
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् | 022a
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः || 022c
दुर्योधनं च समरे सनागमिव यूथपम् | 023a
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् || 023c
न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन | 024a
व्यायामेन परीप्सस्व जीवितं कौरवात्मज || 024c
न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु | 025a
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि || 025c
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् | 026a
सचिवैः संवृतो राजा रथे नाग इव श्वसन् || 026c
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष | 027a
यदभ्रघनसङ्काशमनीकं व्यधमच्छरैः || 027c
तत्प्रणुद्य रथानीकं सिंहसंहननो युवा| 028a
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली || 028c
एकेन तेन वीरेण षड्रथाः परिवारिताः | 029a
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने || 029c
विराट उवाच || 030
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः | 030a
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे || 030c
इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् | 031a
येन मे त्वं च गावश्च रक्षिता देवसूनुना || 031c
उत्तर उवाच || 032
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् | 032a
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति || 032c
वैशम्पायन उवाच || 033
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् | 033a
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् || 033c
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना | 034a
प्रददौ तानि वासांसि विराटदुहितुः स्वयम् || 034c
उत्तरा तु महार्हाणि विविधानि तनूनि च | 035a
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी || 035c
मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा | 036a
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे || 036c
ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ | 037a
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः || 037c