वैशम्पायन उवाच || 001
ततो विजित्य सङ्ग्रामे कुरून्गोवृषभेक्षणः | 001a
समानयामास तदा विराटस्य धनं महत् || 001c
गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः | 002a
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः || 002c
भयात्सन्त्रस्तमनसः समाजग्मुस्ततस्ततः | 003a
मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा || 003c
क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः | 004a
ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते || 004c
अर्जुन उवाच || 005
स्वस्ति व्रजत भद्रं वो न भेतव्यं कथञ्चन | 005a
नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः || 005c
वैशम्पायन उवाच || 006
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः | 006a
आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् || 006c
ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः | 007a
पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत् || 007c
राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः | 008a
गोकुलानि महाबाहो वीर गोपालकैः सह || 008c
ततोऽपराह्णे यास्यामो विराटनगरं प्रति | 009a
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः || 009c
गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया | 010a
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् || 010c
वैशम्पायन उवाच || 011
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः | 011a
वचनादर्जुनस्यैव आचक्षध्वं जयं मम || 011c