वैशम्पायन उवाच || 001
आहूयमानस्तु स तेन सङ्ख्ये महामना धृतराष्ट्रस्य पुत्रः | 001a
निवर्तितस्तस्य गिराङ्कुशेन गजो यथा मत्त इवाङ्कुशेन || 001c
सोऽमृष्यमाणो वचसाभिमृष्टो महारथेनातिरथस्तरस्वी | 002a
पर्याववर्ताथ रथेन वीरो भोगी यथा पादतलाभिमृष्टः || 002c
तं प्रेक्ष्य कर्णः परिवर्तमानं निवर्त्य संस्तभ्य च विद्धगात्रः | 003a
दुर्योधनं दक्षिणतोऽभ्यगच्छत्पार्थं नृवीरो युधि हेममाली || 003c
भीष्मस्ततः शान्तनवो निवृत्य हिरण्यकक्ष्यांस्त्वरयंस्तुरङ्गान् | 004a
दुर्योधनं पश्चिमतोऽभ्यरक्षत्पार्थान्महाबाहुरधिज्यधन्वा || 004c
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् | 005a
सर्वे पुरस्ताद्विततेषुचापा दुर्योधनार्थं त्वरिताभ्युपेयुः || 005c
स तान्यनीकानि निवर्तमानान्यालोक्य पूर्णौघनिभानि पार्थः | 006a
हंसो यथा मेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी || 006c
ते सर्वतः सम्परिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः | 007a
ववर्षुरभ्येत्य शरैः समन्तान्मेघा यथा भूधरमम्बुवेगैः || 007c
ततोऽस्त्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम् | 008a
सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रिरपारणीयम् || 008c
ततो दिशश्चानुदिशो विवृत्य शरैः सुधारैर्निशितैः सुपुङ्खैः | 009a
गाण्डीवघोषेण मनांसि तेषां महाबलः प्रव्यथयां चकार || 009c
ततः पुनर्भीमरवं प्रगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् | 010a
व्यनादयत्स प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता || 010c
ते शङ्खनादेन कुरुप्रवीराः सम्मोहिताः पार्थसमीरितेन | 011a
उत्सृज्य चापानि दुरासदानि सर्वे तदा शान्तिपरा बभूवुः || 011c
तथा विसञ्ज्ञेषु परेषु पार्थः स्मृत्वा तु वाक्यानि तथोत्तरायाः | 012a
निर्याहि मध्यादिति मत्स्यपुत्रमुवाच यावत्कुरवो विसञ्ज्ञाः || 012c
आचार्य शारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् | 013a
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर || 013c
भीष्मस्य सञ्ज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः | 014a
एतस्य वाहान्कुरु सव्यतस्त्वमेवं हि यातव्यममूढसञ्ज्ञैः || 014c
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः | 015a
वस्त्राण्युपादाय महारथानां तूर्णं पुनः स्वं रथमारुरोह || 015c
ततोऽन्वशासच्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् | 016a
ते तद्व्यतीयुर्ध्वजिनामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् || 016c
तथा तु यान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी | 017a
स चापि भीष्मस्य हयान्निहत्य विव्याध पार्श्वे दशभिः पृषत्कैः || 017c
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वास्य यन्तारमरिष्टधन्वा | 018a
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः || 018c
लब्ध्वा तु सञ्ज्ञां च कुरुप्रवीरः पार्थं समीक्ष्याथ महेन्द्रकल्पम् | 019a
रणाद्विमुक्तं स्थितमेकमाजौ स धार्तराष्ट्रस्त्वरितो बभाषे || 019c
अयं कथं स्विद्भवतां विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् | 020a
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्व वीर्यम् || 020c
शान्तिं पराश्वस्य यथा स्थितोऽभूरुत्सृज्य बाणांश्च धनुश्च चित्रम् | 021a
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् || 021c
त्रैलोक्यहेतोर्न जहेत्स्वधर्मं तस्मान्न सर्वे निहता रणेऽस्मिन् | 022a
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः || 022c
दुर्योधनस्तस्य तु तन्निशम्य पितामहस्यात्महितं वचोऽथ | 023a
अतीतकामो युधि सोऽत्यमर्षी राजा विनिःश्वस्य बभूव तूष्णीम् || 023c
तद्भीष्मवाक्यं हितमीक्ष्य सर्वे धनञ्जयाग्निं च विवर्धमानम् | 024a
निवर्तनायैव मनो निदध्युर्दुर्योधनं ते परिरक्षमाणाः || 024c
तान्प्रस्थितान्प्रीतमनाः स पार्थो धनञ्जयः प्रेक्ष्य कुरुप्रवीरान् | 025a
आभाषमाणोऽनुययौ मुहूर्तं सम्पूजयंस्तत्र गुरून्महात्मा || 025c
पितामहं शान्तनवं स वृद्धं द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना | 026a
द्रौणिं कृपं चैव गुरूंश्च सर्वाञ्शरैर्विचित्रैरभिवाद्य चैव || 026c
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मुकुटं शरेण | 027a
आमन्त्र्य वीरांश्च तथैव मान्यान्गाण्डीवघोषेण विनाद्य लोकान् | 027c
स देवदत्तं सहसा विनाद्य विदार्य वीरो द्विषतां मनांसि | 028a
ध्वजेन सर्वानभिभूय शत्रून्स हेमजालेन विराजमानः || 028c
दृष्ट्वा प्रयातांस्तु कुरून्किरीटी हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् | 029a
आवर्तयाश्वान्पशवो जितास्ते याताः परे याहि पुरं प्रहृष्टः || 029c