वैशम्पायन उवाच || 001
भीष्मे तु सङ्ग्रामशिरो विहाय पलायमाने धृतराष्ट्रपुत्रः | 001a
उच्छ्रित्य केतुं विनदन्महात्मा स्वयं विगृह्यार्जुनमाससाद || 001c
स भीमधन्वानमुदग्रवीर्यं धनञ्जयं शत्रुगणे चरन्तम् | 002a
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये || 002c
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंशितेन | 003a
रराज राजन्महनीयकर्मा यथैकपर्वा रुचिरैकशृङ्गः || 003c
अथास्य बाणेन विदारितस्य प्रादुर्बभूवासृगजस्रमुष्णम् | 004a
004c सा तस्य जाम्बूनदपुष्पचित्रा मालेव चित्राभिविराजते स्म स तेन बाणाभिहतस्तरस्वी दुर्योधनेनोद्धतमन्युवेगः | 005a
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्त्वः || 005c
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः | 006a
अन्योन्यमाजौ पुरुषप्रवीरौ समं समाजघ्नतुराजमीढौ || 006c
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः | 007a
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं जिष्णुमथाभ्यधावत् || 007c
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भविभागमध्ये | 008a
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध महाजवेन || 008c
पार्थेन सृष्टः स तु गार्ध्रपत्र आ पुङ्खदेशात्प्रविवेश नागम् | 009a
विदार्य शैलप्रवरप्रकाशं यथाशनिः पर्वतमिन्द्रसृष्टः || 009c
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा | 010a
संसीदमानो निपपात मह्यां वज्राहतं शृङ्गमिवाचलस्य || 010c
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसावतीर्य | 011a
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह || 011c
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवराम्बुदाभम् | 012a
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद || 012c
ततो गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे | 013a
गाण्डीवमुक्तैर्विशिखैः प्रणुन्नास्ते योधमुख्याः सहसापजग्मुः || 013c
दृष्ट्वैव बाणेन हतं तु नागं योधांश्च सर्वान्द्रवतो निशम्य | 014a
रथं समावृत्य कुरुप्रवीरो रणात्प्रदुद्राव यतो न पार्थः || 014c
तं भीमरूपं त्वरितं द्रवन्तं दुर्योधनं शत्रुसहो निषङ्गी | 015a
प्राक्ष्वेडयद्योद्धुमनाः किरीटी बाणेन विद्धं रुधिरं वमन्तम् || 015c
अर्जुन उवाच || 016
विहाय कीर्तिं विपुलं यशश्च युद्धात्परावृत्य पलायसे किम् | 016a
न तेऽद्य तूर्याणि समाहतानि यथावदुद्यान्ति गतस्य युद्धे || 016c
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोऽस्मि | 017a
तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रवृत्तं स्मर धार्तराष्ट्र || 017c
मोघं तवेदं भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् | 018a
न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाय || 018c
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् | 019a
परैहि युद्धेन कुरुप्रवीर प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष || 019c