वैशम्पायन उवाच || 001
ततः शान्तनवो भीष्मो दुराधर्षः प्रतापवान् | 001a
वध्यमानेषु योधेषु धनञ्जयमुपाद्रवत् || 001c
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् | 002a
शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः || 002c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि | 003a
शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा || 003c
प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् | 004a
प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् || 004c
तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा | 005a
प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः || 005c
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् | 006a
समपर्यन्महावेगाञ्श्वसमानानिवोरगान् || 006c
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः | 007a
ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् || 007c
ततो भल्लेन महता पृथुधारेण पाण्डवः | 008a
छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि || 008c
ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् | 009a
शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी || 009c
तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् | 010a
भीष्मस्य सह पार्थेन बलिवासवयोरिव || 010c
भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि | 011a
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि || 011c
अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः | 012a
गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् || 012c
स तैः सञ्छादयामास भीष्मं शरशतैः शितैः | 013a
पर्वतं वारिधाराभिश्छादयन्निव तोयदः || 013c
तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम् | 014a
व्यधमत्सायकैर्भीष्मो अर्जुनं सन्निवारयत् || 014c
ततस्तानि निकृत्तानि शरजालानि भागशः | 015a
समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति || 015c
ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् | 016a
पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् | 016c
व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः || 016e
ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् | 017a
दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् || 017c
बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः | 018a
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे || 018c
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् | 019a
आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् || 019c
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ | 020a
चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ || 020c
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् | 021a
कौबेरं वारुणं चैव याम्यं वायव्यमेव च | 021c
प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः || 021e
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा | 022a
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् || 022c
नेदं युक्तं मनुष्येषु योऽयं सन्दृश्यते महान् | 023a
महास्त्राणां सम्प्रयोगः समरे भीष्मपार्थयोः || 023c
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत | 024a
अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् | 024c
चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् || 024e
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे | 025a
समादाय महाबाहुः सज्यं चक्रे महाबलः | 025c
शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनञ्जये || 025e
अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् | 026a
चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे || 026c
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् | 027a
न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः || 027c
अथावृणोद्दश दिशः शरैरतिरथस्तदा | 028a
किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा || 028c
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् | 029a
बभूव तस्मिन्सङ्ग्रामे राजँल्लोके तदद्भुतम् || 029c
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः | 030a
शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् || 030c
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः | 031a
आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः || 031c
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः 032a
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः || 032c
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः | 033a
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः | 033c
तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् | 034a
शशंस देवराजाय चित्रसेनः प्रतापवान् || 034c
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः | 035a
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः || 035c
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते | 036a
पौराणानां महास्त्राणां विचित्रोऽयं समागमः || 036c
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे | 037a
न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् || 037c
उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ | 038a
उभौ सदृशकर्माणावुभौ युधि दुरासदौ || 038c
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् | 039a
पूजयामास दिव्येन पुष्पवर्षेण भारत || 039c
ततो भीष्मः शान्तनवो वामे पार्श्वे समर्पयत् | 040a
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः || 040c
ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् | 041a
न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः || 041c
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे | 042a
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः || 042c
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् | 043a
गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः || 043c
तं विसञ्ज्ञमपोवाह संयन्ता रथवाजिनाम् | 044a
उपदेशमनुस्मृत्य रक्षमाणो महारथम् || 044c