वैशम्पायन उवाच || 001
अथ दुर्योधनः कर्णो दुःशासनविविंशती | 001a
द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे || 001c
पुनरीयुः सुसंरब्धा धनञ्जयजिघांसया | 002a
विस्फारयन्तश्चापानि बलवन्ति दृढानि च || 002c
तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा | 003a
प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः || 003c
ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः | 004a
तं महास्त्रैर्महावीर्यं परिवार्य धनञ्जयम् || 004c
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः | 005a
ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् || 005c
इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः | 006a
अदूरात्पर्यवस्थाय पूरयामासुरादृताः || 006c
तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः | 007a
न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत || 007c
ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः | 008a
अस्त्रमादित्यसङ्काशं गाण्डीवे समयोजयत् || 008c
स रश्मिभिरिवादित्यः प्रतपन्समरे बली | 009a
किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् || 009c
यथा बलाहके विद्युत्पावको वा शिलोच्चये | 010a
तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् || 010c
यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि | 011a
तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् || 011c
त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः | 012a
सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे | 012c
सङ्ग्रामविमुखाः सर्वे योधास्ते हतचेतसः || 012e
एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ | 013a
प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते || 013c