वैशम्पायन उवाच || 001
अथ सङ्गम्य सर्वे तु कौरवाणां महारथाः | 001a
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत || 001c
स सायकमयैर्जालैः सर्वतस्तान्महारथान् | 002a
प्राच्छादयदमेयात्मा नीहार इव पर्वतान् || 002c
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः | 003a
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् || 003c
नराश्वकायान्निर्भिद्य लोहानि कवचानि च | 004a
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः || 004c
त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे | 005a
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः || 005c
उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा | 006a
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः || 006c
शरैः सन्ताड्यमानानां कवचानां महात्मनाम् | 007a
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः || 007c
छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् | 008a
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः || 008c
थोपस्थाभिपतितैरास्तृता मानवैर्मही | 009a
प्रनृत्यदिव सङ्ग्रामे चापहस्तो धनञ्जयः || 009c
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः | 010a
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् || 010c
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च | 011a
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि || 011c
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः | 012a
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी || 012c
शिरसां पात्यमानानामन्तरा निशितैः शरैः | 013a
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ || 013c
दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः | 014a
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च | 014c
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः || 014e
तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् | 015a
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः || 015c
वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् | 016a
अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत || 016c
प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् | 017a
अस्थिशैवलसम्बाधां युगान्ते कालनिर्मिताम् || 017c
शरचापप्लवां घोरां मांसशोणितकर्दमाम् | 018a
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् | 018c
चकार महतीं पार्थो नदीमुत्तरशोणिताम् || 018e
आददानस्य हि शरान्सन्धाय च विमुञ्चतः | 019a
विकर्षतश्च गाण्डीवं न किञ्चिद्दृश्यतेऽन्तरम् || 019c