अर्जुन उवाच || 001
कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् | 001a
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् || 001c
अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् | 002a
इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् || 002c
यत्त्वया कथितं पूर्वं मामनासाद्य किञ्चन | 003a
तदद्य कुरु राधेय कुरुमध्ये मया सह || 003c
यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः | 004a
दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् || 004c
धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा | 005a
तस्य राधेय कोपस्य विजयं पश्य मे मृधे || 005c
एहि कर्ण मया सार्धं प्रतिपद्यस्व सङ्गरम् | 006a
प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः || 006c
कर्ण उवाच || 007
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर | 007a
अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि || 007c
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् | 008a
इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् || 008c
धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा | 009a
तथैव बद्धमात्मानमबद्धमिव मन्यसे || 009c
यदि तावद्वने वासो यथोक्तश्चरितस्त्वया | 010a
तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि || 010c
यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् | 011a
तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः || 011c
अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः | 012a
योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् || 012c
अर्जुन उवाच || 013
इदानीमेव तावत्त्वमपयातो रणान्मम | 013a
तेन जीवसि राधेय निहतस्त्वनुजस्तव || 013c
भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः | 014a
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः || 014c
वैशम्पायन उवाच || 015
इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः | 015a
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः || 015c
प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् | 016a
शरवर्षेण महता वर्षमाण इवाम्बुदः || 016c
उत्पेतुः शरजालानि घोररूपाणि सर्वशः | 017a
अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् || 017c
सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् | 018a
चिच्छेद निशिताग्रेण शरेण नतपर्वणा || 018c
उपासङ्गादुपादाय कर्णो बाणानथापरान् | 019a
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत || 019c
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् | 020a
स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः || 020c
ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः | 021a
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् || 021c
ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः | 022a
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि || 022c
अथापरेण बाणेन ज्वलितेन महाभुजः | 023a
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् || 023c
तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः | 024a
ततः स तमसाविष्टो न स्म किञ्चित्प्रजज्ञिवान् || 024c
स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः | 025a
ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः || 025c