वैशम्पायन उवाच || 001
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् | 001a
शरजालेन महता वर्षमाणमिवाम्बुदम् || 001c
तयोर्देवासुरसमः सन्निपातो महानभूत् | 002a
किरतोः शरजालानि वृत्रवासवयोरिव || 002c
न स्म सूर्यस्तदा भाति न च वाति समीरणः | 003a
शरगाढे कृते व्योम्नि छायाभूते समन्ततः || 003c
महांश्चटचटाशब्दो योधयोर्हन्यमानयोः | 004a
दह्यतामिव वेणूनामासीत्परपुरञ्जय || 004c
हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् | 005a
स राजन्न प्रजानाति दिशं काञ्चन मोहितः || 005c
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः | 006a
विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह | 006c
तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् || 006e
ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् | 007a
पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः || 007c
ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा | 008a
योजयामास नवया मौर्व्या गाण्डीवमोजसा || 008c
ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् | 009a
वारणेनेव मत्तेन मत्तो वारणयूथपः || 009c
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः | 010a
रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् || 010c
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः | 011a
युध्यमानौ महात्मानौ यूथपाविव सङ्गतौ || 011c
तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ | 012a
शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः || 012c
अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः | 013a
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः || 013c
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे | 014a
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः || 014c
ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा | 015a
अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत् || 015c
तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः | 016a
ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् || 016c
स रोषवशमापन्नः कर्णमेव जिघांसया | 017a
अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः || 017c
तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् | 018a
त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः || 018c
उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनञ्जयः | 019a
अभिदुद्राव सहसा कर्णमेव सपत्नजित् || 019c
तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः | 020a
कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् || 020c